Make your own free website on Tripod.com

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Chandramaa to Jaleshwara)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Chandramaa - Chandrashekhara ( words like Chandramaa / moon, Chandrarekhaa etc.)

Chandrashree - Champaka (Chandrasena, Chandrahaasa, Chandraangada, Chandrikaa, Chapahaani, Chapala, Chamasa, Champaka etc.)

Champaka - Chala (Champaa, Chara / variable, Charaka, Charana / feet, Charchikaa, Charma / skin, Charu, Chala / unstable etc. )

Chaakshusha - Chaamundaa  (Chaakshusha, Chaanakya, Chaanuura, Chaandaala, Chaaturmaasa, Chaandraayana, Chaamara, Chaamundaa etc.)

Chaamundaa - Chitta ( Chaaru, Chaarudeshna, Chikshura, Chit, Chiti, Chitta etc.)

Chitta - Chitraratha ( Chitta, Chitra / picture, Chitrakuuta, Chitragupta, Chitraratha etc. )

Chitraratha - Chitraangadaa ( Chitralekhaa, Chitrasena, Chitraa, Chitraangada etc. ) 

Chitraayudha - Chuudaalaa (Chintaa / worry, Chintaamani, Chiranjeeva / long-living, Chihna / signs, Chuudamani, Chuudaalaa etc.)

Chuudaalaa - Chori  ( Chuuli, Chedi, Chaitanya, Chaitra, Chaitraratha, Chora / thief etc.)

Chori - Chhandoga( Chola, Chyavana / seepage, Chhatra, Chhanda / meter, Chhandoga etc.)

Chhaaga - Jataa  (Chhaaga / goat, Chhaayaa / shadow, Chhidra / hole, Jagata / world, Jagati, Jataa / hair-lock etc.)

Jataa - Janaka ( Jataayu, Jathara / stomach, Jada, Jatu, Janaka etc.)

Janaka - Janmaashtami (Janapada / district, Janamejaya, Janaardana, Jantu / creature, Janma / birth, Janmaashtami etc.)

Janmaashtami - Jambu (Japa / recitation, Jamadagni, Jambuka, Jambu etc. ) 

Jambu - Jayadratha ( Jambha, Jaya / victory, Jayadratha etc.)

Jayadhwaja - Jara  ( Jayadhwaja, Jayanta, Jayanti, Jayaa, Jara / decay etc. )  

Jara - Jaleshwara ( Jaratkaaru, Jaraa / old age, Jaraasandha, Jala / water etc.)

 

 

 

चम्पा

भविष्यपुराणे ३.२.७ वेतालपञ्चविंशत्यां कथा संक्षेपरूपेण एवं अस्ति चम्पापुर्यां चम्पकेशस्य कन्या त्रिलोकसुन्दरी अस्ति। तस्याः स्वयंवरे इन्द्रः, यमः, कुबेरः एवं वरुणः नररूपं धृत्वा आगच्छन्ति। प्रथमतः इन्द्रः इन्द्रदत्त रूपे स्वपरिचयं ददाति एवं कथयति यत् सः शास्त्रेषु निपुणः अस्ति,रूपवानस्ति। तदनन्तरं यमः धर्मदत्त रूपे स्वपरिचयं ददाति तथा कथयति यत् सः धनुर्विद्यायां प्रवीणः अस्ति। तदनन्तरं कुबेरः धनपाल रूपे आगत्य सर्वजीवानां भाषाणां ज्ञाता रूपेण स्वपरिचयं ददाति। तदनन्तरं वरुणः सर्वकलासु कोविद रूपेण स्वपरिचयं ददाति तथा कथयति यत् सः प्रतिदिनं  पञ्चरत्नानां सम्पादनं करोति। तेषु प्रथमस्य रत्नस्य व्ययं पुण्यार्थं , द्वितीयस्य होमार्थं, तृतीयस्य आत्मार्थं, चतुर्थस्य पत्न्यर्थं एवं पञ्चमस्य सुभोजनार्थं करोति। अत्र वेतालः विक्रमं राजानं पृच्छति यत् एतेषु चतसृषु मध्ये कः कन्यायाः पतिः भवितुमर्हति। विक्रमः कथयति यत् यः धनुर्विद्यां जानाति, सः एव पतिः भवितुमर्हति। कारणमस्ति यत् यः शास्त्राणां ज्ञाता अस्ति, सः द्विजः अस्ति। यः भाषावेत्ता अस्ति, सः वणिजः अस्ति। यः कलाज्ञः अस्ति, सः शूद्रः अस्ति। यः धनुर्वेदी अस्ति, सः भूपतिः अस्ति। सवर्णाय वै कन्यायाः प्रदानं उचितं अस्ति।

     अस्यां कथायां चम्पापुर्याः कः अभिप्रायः अस्ति। चम्पा शब्दस्य मूल धातुः चपि क्षान्तौ, चप सान्त्वने, चप कल्कने धातूनां मध्ये कोपि भवितुं शक्यते। कल्कन शब्दस्य व्यवहारः चूर्णन अर्थे भवति। किन्तु कल्कनस्य रूपान्तरणं कर्के अपि संभवमस्ति। यथा कल्कि शब्दस्य टिप्पण्यां कथितमस्ति, कर्क शब्दस्य एकः अभिप्रायः प्रतिकृतिकरणमपि अस्ति। देहमध्ये प्रत्येक कोशिका स्वस्याः प्रतिकृतिकरणे रता भवति। यदि प्रतिकृतिकरणे कापि त्रुटि भवति, तदा कैंसर संज्ञक व्याधि उत्पद्यते। पद्म पुराणे चम्पा नगर्याः अपरं नाम माहिष्मती पुरी अस्ति। माहिष्मत्यां नगर्यां हैहय कुलस्य राजानां राज्यं  भवति। डा. फतहसिंह कथयति स्म यत् हैहय शब्दस्य मूलः हय-हय अस्ति। एकं हयः श्रुति स्तरे, द्वितीयं हयः स्मृति स्तरे। यो हयः श्रुतिस्तरे अस्ति, तस्य  हयस्य सत्य प्रतिकृति स्मृतिस्तरे भवितुं अपेक्षा अस्ति। किन्तु व्यवहारे एवं नास्ति। अनेन कारणेन हैहय कुलं शुद्धं नास्ति। परशुरामः स्वपरशुना हैहय राज्ञः सहस्रबाहु अर्जुनस्य वधं करोति इति सर्वप्रसिद्धमस्ति। गर्ग संहितायां चम्पापुर्याः राज्ञः नाम विमलमस्ति यः स्वस्य सर्वासाम् कन्यानां कृष्णाय समर्पणं कृत्वा सारूप्य मोक्षं प्राप्नोति।  शुक्ल यजुर्वेदे १९.८८ सौत्रामणी याग संदर्भे कथनं अस्ति

चप्यं न पायुर् भिषग् अस्य वालो वस्तिर् न शेपो हरसा तरस्वी ॥

सौत्रामणी यागे सुरायाः शोधनं भवति येन सुरा अपि सोमसदृशं, अन्नाद्यं भवेत्।

शतपथ ब्राह्मणे १२.७.२.१३ विवेचनं अस्ति यत् पायोः(गुदयोः) चप्प रूपेण का प्राप्तिः भविष्यति। उत्तरं अस्ति - चप्पं भवति। अन्नाद्यस्यैवावरुद्ध्यै। पायुः अन्नाद्यस्य स्वीकरणे सक्षम भवतु, इयं अपेक्षा अस्ति। सामान्य रूपेण पायोः कार्यं मलस्य विसर्गं अस्ति। किन्तु यदा आन्त्राणि मधु पिन्वनस्य स्थाली भवन्ति, तदा पायुः कस्य प्रकारस्य मलस्य विसर्गं करिष्यति, इदं अज्ञातं एव।

     भविष्य पुराणस्य कथानुसारेण चंपापुर्यां साधनायाः चत्वारि विकल्पाः प्रकटयन्ति। एके स्तरे सर्वेषां शास्त्राणां ज्ञानं भवति, शास्त्रेषु वाक्यानां रहस्यानां उद्घाटनं भवति। अयं द्विजस्य स्तरः अस्ति। द्वितीय स्तरे यम नियम आसन-धारणा- ध्यान - समाधेः सिद्धिः भवति। भविष्य पुराणस्य कथायां अस्य संज्ञा धर्मः एवं धनुर्वेदः भवति। पद्म पुराणे २.५५.२ सुकला पतिव्रतायाः कथा अस्ति यत्र धर्मरूप चापस्य एवं ज्ञानरूप बाणस्य उल्लेखः अस्ति। अन्यत्र सार्वत्रिक रूपेण प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते इति श्लोकः प्रकटयति। धर्म शब्दस्य विवेचनं देहस्तरे एवं प्रकारेण कर्तुं शक्यते-  देहस्य विभिन्न अङ्गानां भौतिक कार्यं किं अस्ति, इदं ज्ञातमेवास्ति। किन्तु इदं ज्ञानं सत्यं नास्ति। प्रत्येकस्य अंगस्य ऊर्ध्वस्तरे अन्यं कार्यमपि भवति, यस्य ज्ञानं अपेक्षितं अस्ति। तत् ऊर्ध्वं कार्यं एव धर्म संज्ञां धारयितुं शक्यते। धनुषस्य चाप संज्ञा स्वभावतः चंपापुर्याः संकेतमस्ति। तृतीय स्तरे सर्वेषां जीवानां भाषायाः ज्ञानं भवति। रजनीशस्य कुण्डली और सात शरीर व्याख्याने कथनमस्ति यत् यदा विशुद्धि चक्रस्य जागरणं भवति, तदा स्वस्याः चेतनायाः अन्यासु चेतनासु प्रवेशकरणं, तेषां विचाराणां ज्ञानं, तेषु हस्तक्षेपं संभवं भवति। अत्र साधनायाः संज्ञा धनपालमस्ति। धन अर्थात् इतः परं चेतनायाः पतनं ऋणात्मकतायां न भविष्यति, धनात्मकतायाः पालनं भविष्यति। भौतिक विज्ञानानुसारेण अस्य विश्वस्य नैसर्गिक गतिः ऋणात्मकं एव अस्ति।

साधनायाः चतुर्थे स्तरे रत्नानां संग्रहणं एवं व्ययीकरणं संभवं भवति।अस्य स्तरस्य अधिपतिः वरुणः कथितं अस्ति। ऋग्वेदे रत्नसम्बन्धी याः ऋचाः सन्ति, तासु रत्नधारणे अग्निः, सविता, अश्विनौ इत्यादि देवानां उल्लेखः अस्ति, न कुत्रापि वरुणस्य। अतः भविष्यपुराणस्य कथायां रत्नानां संदर्भे वरुणस्य उल्लेखः केन कारणेन अस्ति। हविर्यज्ञानां अवसाने स्विष्टकृत् आहुत्याः विधानं वरुण हेतु अस्ति। स्विष्टकृत् अर्थात् वरुण देवः यज्ञे यत्किंचित् अनिष्टं अस्ति, तस्य सर्वस्य रूपान्तरणं स्विष्टे कुर्यात्। कथासरित्सागरे १५.१ ऋषिः वामदेवः नरवाहनदत्तं राजानं खड्गरत्न, कामिनीरत्न, विद्यारत्नादि रत्नानां शिक्षां ददाति येन सः नरवाहनदत्तः कैलासे मन्दरदेवं जित्वा द्वयानां अपि वेदीनां (उत्तर एवं दक्षिण) अधिपतिः भवति। सोमयागे वामदेव सामस्य( यू ट्यूबे उपलब्धमस्ति) गानं मैत्रावरुण ऋत्विक् करोति। अयं संकेतः अस्ति यत् यत्किंचित् कार्यं मित्रेण करणीयं आसीत्, तत् सर्वं साधनायाः त्रिस्तरेभिः कृतमस्ति। चतुर्थे चरणे यत् कार्यं मित्रेण करणीयं नास्ति, तत् वरुणेन कृतं भवति। भागवत पुराणस्य प्रसिद्धं श्लोकमस्ति

ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च।

प्रेम मैत्री कृपोपेक्षा यः करोति स मध्यमः।।

अत्र प्रेम एवं मैत्री मित्रस्य स्तरे कृतं भवति, किन्तु कृपा एवं उपेक्षा हेतु वरुणस्य आवश्यकता भवति। वरुणः सत्यानृत विवेकस्य देवता अस्ति। द्वेषस्य निराकरणं महत्त्वपूर्णमस्ति। भौतिक विज्ञाने या ऊर्जा पूर्णतया अव्यवस्थिता भवति, तस्याः शास्त्रीय संज्ञा द्वेषमस्ति। भौतिक विज्ञाने तस्याः ऊर्जायाः संशोधनस्य न कोपि उपायः, किन्तु शास्त्राः अस्य उपायं वदन्ति। किं अयं उपायः रत्नमस्ति, अयं विचारणीयः। पुराणेषु उल्लेखः अस्ति यत् रत्नस्य उपयोगः तासां व्याधीनां चिकित्सा हेतु भवति यासां चिकित्सा ओषधीभिः असफलं भवति। रजनीशस्य सार्वत्रिक कथनं अस्ति यत् देहे उच्चतराः कोशाः निम्नतरेभ्यः कोशेभ्यः ऊर्जाः प्रदायन्ति। सा ऊर्जा निम्नतरकोशेभ्यः जीवनदायिनी शक्तिः भवति। रत्नानि अपि सूक्ष्म दीप्तिं निःसारयन्ति। किं इयं दीप्तिः चेतना हेतु जीवनदायिनी भवति, अयं अन्वेषणीयः। लक्ष्मीनारायण संहितायां ३.१६१ वर्णनं अस्ति यत् बल असुरस्य अङ्गानां रूपान्तरणं रत्नबीजेषु समभवत्। ते रत्नबीजाः एव विभिन्न स्थानेषु रत्नरूपेषु  प्रकटयन्ति। तानि एव रत्नानि यज्ञस्य समित् अप भवन्ति। बल अथवा वल शब्दः केन्द्रीय चेतनायाः परितः क्षिप्तायाः ऊर्जायाः प्रतीकमस्ति। अस्याः परितः क्षिप्तायाः ऊर्जायाः संक्षेपणं कृत्वा अस्याः रत्न रूपे परिवर्तनकरणं संभवमस्ति।  ऋग्वेदस्य ऋचा अस्ति

,०३८.०६ भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नम् ॥

अर्थात् यः भगः अनुग्रः भवति, सैव रत्नरूपेण भवितुं शक्यते। किं उग्रः, अनुग्रः वर्तमान विज्ञानस्य एण्ट्रांपीयायाः, अव्यवस्था - व्यवस्थायायाः प्रतीकाः सन्ति, अयं अन्वेषणीयः।

     कथासरित्सागरे भविष्यपुराणस्य कथायाः रूपान्तरणं अनेन प्रकारेण अस्ति नगर्याः नाम चंपापुरी स्थाने उज्जयिनी अस्ति यस्य चतुर्युगानुसारेण चत्वारि नामानि सन्ति। उज्जयिन्याः पुर्याः राज्ञः नाम वीरदेवः एवं तस्य महिष्याः नाम पद्मरतिः अस्ति। तस्याः पुत्र्याः नाम अनंगरतिः अस्ति। तस्याः वरणहेतु ये चत्वारि पुरुषाः आगच्छन्ति, तेषां एकः पञ्चपट्टिकः शूद्रः अस्ति यः एकस्मिन् दिने पञ्च वस्त्राणि वयति। द्वितीयः भाषाज्ञः वैश्यः अस्ति। तृतीयः खड्गधरः क्षत्रियः अस्ति, चतुर्थः जीवदत्त संज्ञकः द्विजः अस्ति यः मृतान् जीवान् अपि जीवयितुं समर्थः अस्ति।


मुखम्̐ सद् अस्य शिर इत् सतेन जिह्वा पवित्रम् अश्विनासन्त् सरस्वती
चप्यं न पायुर् भिषग् अस्य वालो वस्तिर् न शेपो हरसा तरस्वी ॥ शु.यजु. १९.८८

(२२) शतातृण्णा कुंभी भवति। बहुधेव स व्यस्रवत्। अथो शतोन्मानो वै यज्ञो यज्ञमेवावरुंधे। (२३) सतं भवति। सदेवावरुंधे। (२४) चप्पं भवति। अन्नाद्यस्यैवावरुद्ध्यै। (२५) पवित्रं भवति। पुनंति ह्येनम्। (२६) वालो भवति। पाप्मनो व्यावृत्त्यै। (२७) सुवर्णं (२८) हिरण्यं भवति। रूपस्यैवावरुद्ध्यै। (२९) शतमानं भवति। शतायुर्वै पुरुषः शतेंद्रियः। आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते॥श. १२.७.२.१३

हृदयमेवास्यैन्द्रः पुरोडाशः। यकृत् सावित्रः। क्लोमा वारुणः। मतस्ने एवास्याश्वत्थं च पात्रमौदुम्बरं च। पित्तं नैयग्रोधम्। आंत्राणि स्थाल्यः। गुदा उपशयानि। श्येनपत्रे प्लीहा। आसन्दी नाभिः। कुंभो वनिष्ठुः। प्लाशिः शतातृण्णा। तद्यत् सा बहुधा वितृण्णा भवति। तस्मात् प्लाशिर्बहुधा विकृता उ। मुखं सतम्। जिह्वा पवित्रम्। चप्पं पायुः बस्तिर्वालः॥श.१२.९.१.३

इन्द्रः सुत्रामा हृदयेन सत्यम् । पुरोडाशेन सविता जजान । यकृत्क्लोमानं वरुणो भिषज्यन् । मतस्ने वायव्यैर्न मिनाति पित्तम् । आन्त्राणि स्थाली मधु पिन्वमाना । गुदा पात्राणि सुदुघा न धेनुः । श्येनस्य पत्रं न प्लीहा शचीभिः । आसन्दी नाभिरुदरं न माता । कुम्भो वनिष्ठुर्जनिता शचीभिः । यस्मिन्नग्रे योन्यां गर्भो अन्तः १६

प्लाशीर्व्यक्तः शतधार उत्सः । दुहे न कुम्भीँ स्वधां पितृभ्यः । मुखँ सदस्य शिर इत्सदेन । जिह्वा पवित्रमश्विना सँ सरस्वती ।चप्यं न पायुर्भिषगस्य वालः । वस्तिर्न शेपो हरसा तरस्वी ।अश्विभ्यां चक्षुरमृतं ग्रहाभ्याम् । छागेन तेजो हविषा शृतेन । पक्ष्माणि गोधूमैः क्वलैरुतानि । पेशो न शुक्लमसितं वसाते १७-{तै.ब्रा. 2.6.4.17}

चप्पं पिष्टपात्रं सायण भाष्य

चपि क्षान्तौ। चम्पयति- रक्षति।

चप सान्त्वने। चापम् धनुः

चप कल्कने। चापयति चूर्णयति। चपलः चञ्चलः। चपला विद्युत्। चापम् धनुः।

पायु- पाति रक्षति शरीरं मलनिस्सारणेनेति

अवाग् गतिरपानश्च पायुरध्यात्ममुच्यते ।

अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ॥

इति महाभारते आश्वमेधिकपर्व्व ॥

 

चम्पके चम्पकाभा स्यादशोके शोकवर्जिता।
मधूके मधुरं वक्ति वटे च मृदुगात्रिका।। मत्स्य १८७.३१

खदिरे मुखसौगन्ध्यं बिल्वे तु विपुलं धनम् ।

उदुम्बरे तु वाक्सिद्धिराम्रे त्वारोग्यमेव च ।

कदम्बे तु धृतिर्मेधा चम्पके दृढवाक्श्रुतिः ।

शिरीषे कीर्त्तिसौभाग्यमायुरारोग्यमेव च ।

अपामार्गे धृतिर्मेधा प्रज्ञाशक्तिस्तथासने भावप्रकाशः १.५.३२

 

स्त्रीणां स्पर्शात् प्रियङ्गुर्विकसति

बकुलः शीधुगण्डूषसेकात् पादाघातादशोकस्तिलककुरुवकौ वीक्षणालिङ्गनाभ्याम् ।

मन्दारो नर्मवाक्यात् पटुमृदुहसनात् चम्पको वक्त्रवातात् चूतो गीतान्नमेरुर्विकसति च पुरोनर्तनात् कर्णिकारः मल्लि० धृतवाक्यम् - वाचस्पत्यम्

 

तस्यामेव चतुर्थयामे जगन्मोहनचक्रे चम्पकपुष्पै सहस्रनामभिः पूजयन् देवता- सायुज्यमाप्नोति । - राजश्यामलारहस्योपनिषद