Home page

Chandramaa - Chandrashekhara ( words like Chandramaa / moon, Chandrarekhaa etc.)

Chandrashree - Champaka (Chandrasena, Chandrahaasa, Chandraangada, Chandrikaa, Chapahaani, Chapala, Chamasa, Champaka etc.)

Champaka - Chala (Champaa, Chara / variable, Charaka, Charana / feet, Charchikaa, Charma / skin, Charu, Chala / unstable etc. )

Chaakshusha - Chaamundaa  (Chaakshusha, Chaanakya, Chaanuura, Chaandaala, Chaaturmaasa, Chaandraayana, Chaamara, Chaamundaa etc.)

Chaamundaa - Chitta ( Chaaru, Chaarudeshna, Chikshura, Chit, Chiti, Chitta etc.)

Chitta - Chitraratha ( Chitta, Chitra / picture, Chitrakuuta, Chitragupta, Chitraratha etc. )

Chitraratha - Chitraangadaa ( Chitralekhaa, Chitrasena, Chitraa, Chitraangada etc. ) 

Chitraayudha - Chuudaalaa (Chintaa / worry, Chintaamani, Chiranjeeva / long-living, Chihna / signs, Chuudamani, Chuudaalaa etc.)

Chuudaalaa - Chori  ( Chuuli, Chedi, Chaitanya, Chaitra, Chaitraratha, Chora / thief etc.)

Chori - Chhandoga( Chola, Chyavana / seepage, Chhatra, Chhanda / meter, Chhandoga etc.)

Chhaaga - Jataa  (Chhaaga / goat, Chhaayaa / shadow, Chhidra / hole, Jagata / world, Jagati, Jataa / hair-lock etc.)

Jataa - Janaka ( Jataayu, Jathara / stomach, Jada, Jatu, Janaka etc.)

Janaka - Janmaashtami (Janapada / district, Janamejaya, Janaardana, Jantu / creature, Janma / birth, Janmaashtami etc.)

Janmaashtami - Jambu (Japa / recitation, Jamadagni, Jambuka, Jambu etc. ) 

Jambu - Jayadratha ( Jambha, Jaya / victory, Jayadratha etc.)

Jayadhwaja - Jara  ( Jayadhwaja, Jayanta, Jayanti, Jayaa, Jara / decay etc. )  

Jara - Jaleshwara ( Jaratkaaru, Jaraa / old age, Jaraasandha, Jala / water etc.)

 

 

जातवेदा

यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।

प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥१॥ - ऋ. ६.४८.१

अस्मिन् ऋचि यज्ञायज्ञा वो अग्नये इति पदः अग्निहोत्रतः सम्बद्धमस्ति, गिरागिरा च दक्षसे दर्शपूर्णमासतः, प्रप्रवयममृतं जातवेदसं चातुर्मासतः एवं प्रियं मित्रं न शंसिषम् अग्निष्टोमतः।

व्यवहारे, अयं कथितुं शक्यन्ते यत् संसारे या कापि घटना अस्माकं चक्षुषः समक्षे घटति, अस्माकं चेतना येन प्रकारेण तस्याः घटनायाः संज्ञानं करोति, तत् जातवेदा अस्ति। अस्माकं समक्षे यः चित्रः प्रकटयति, तत् घृणोत्पादकं भवितुं शक्यते, शत्रुता उत्पादकं भवितुं शक्यते। किन्तु उपरोक्ता ऋक् कथयति यत् अयं जातवेदः अमृतं भवेत्। संसारे प्रायः अयं घटति यत् कस्यचित् जनस्य दर्शनं अस्माकं अन्तरे श्रद्धां उत्पादयति। किन्तु कालान्तरेण सा श्रद्धा अश्रद्धायां परिवर्तयति। तैत्तिरीयआरण्यके १.१८.१ अष्टदिक्षु अग्नेः अष्टनामानां निर्देशमस्ति। आग्नेयकोणे जातवेदा नाम अस्ति। अग्निकोणः श्रद्धा – अश्रद्धायाः स्थानमस्ति।

चातुर्मासयागेन साकं जातवेदसः किं सम्बन्धं अस्ति, अयं न ज्ञायते। लक्ष्मीनारायणसंहिता ३.९३ मध्ये एकः आख्यानमस्ति। देवशर्मा ब्राह्मणः चातुर्मासयाजनाय ग्रामाद्बहिः गच्छति। प्रवासकाले रुचिसंज्ञकायाः स्वभार्यायाः रक्षणस्य भारं सः विपुलसंज्ञकं स्वशिष्याय ददाति। विपुलः सूक्ष्मशरीरस्य माध्यमेन रुच्याः देहं प्रविशति एवं इन्द्रादिजारेभ्यः तस्याः रक्षां करोति। यद्यपि अस्मिन् आख्याने जातवेदा शब्दः नास्ति, किन्तु जातवेदाशब्दस्य अयं स्पष्टतमः चित्रं अस्ति, अयं प्रतीयते।

 

चातुर्मास

असुरेषु वै सर्वो यज्ञ आसीत् ते देवा यज्ञायज्ञीयमपश्यंस्तेषां यज्ञायज्ञा वो अग्नय इत्यग्निहोत्रमवृञ्जत गिरागिरा च दक्षस इति दर्शपूर्णमासौ प्रप्र वयममृतं जातवेदसमिति चातुर्मास्यानि प्रियं मित्रं न शंसिषमिति सौम्यमध्वरम्। तां , , ।।

अस्मिन् वाक्ये चातुर्मासस्य स्वरूपस्य कथनमस्ति यत् प्र प्र वयममृतं जातवेदसं चातुर्मासस्य प्रतीकमस्ति। कर्मकाण्डे चातुर्मासः किं प्रकारेण प्रचरति, अस्य कथनस्य अत्र अवसरं नास्ति। किन्तु पुराणाः चातुर्मासविषये किं कथयन्ति, अयं महत्त्वपूर्णः अस्ति। स्कन्दपुराणे ६.२३०+ वृकासुरस्य कथायाः विस्तारः अस्ति। अन्धकासुरस्य पुत्रः वृकासुरः तपसा वरदानं प्राप्य बलशाली भवति। सांकृति मुनिः कस्मिंश्चिद् स्थाने गुप्तरीत्या तपः करोति, वृकः तस्य तपसि विघ्नं करोति। तदा सांकृतिः तं शापं दत्वा तं पादरहितं करोति। तदोपरि वृकः तपं करोति एवं विष्ण्वादिदेवेभ्यः पदप्राप्त्यै अनुरोधं करोति, किन्तु सांकृतिः एवं अन्ये देवाः अस्यानुरोधविषये विरोधं प्रकटयन्ति। तदा विष्णुः कथयति यत् अष्टमासानां पर्यन्तं वृकः पादरहितः भविष्यति, किन्तु चातुर्मासे सः पादयुक्तः भविष्यति। यदा सः पदायुक्तः भविष्यति, तस्मिन् काले विष्णुः वृकोपरि शयनं करिष्यति येन कारणेन वृकः सांकृतिमुनेः तपसि विघ्नं कर्तुं न शक्स्यते।

     अस्मिन् आख्याने वृकः वक्रः अस्ति – ऋजु एवं वक्र। आधुनिकविज्ञाने Principle of Least Action  प्रसिद्धः अस्ति। यदा प्रस्तरस्य प्रक्षेपणं अन्तरिक्षे कुर्वन्ति, तदा प्रस्तरस्य भूम्यां अवतरणस्य पथः न्यूनतमक्रिया सिद्धान्तानुसारेण भवति। प्रिंसिपल आफ लीस्ट एक्शनस्य भाषानुवादं – न्यूनतमक्रिया सिद्धान्तः न उचितम्। संस्कृतानुसारेण अस्य अनुवादं सांकृतिः अथवा संकृतिः अस्ति। भौतिकदृष्ट्या, प्रिंसिपल आफ लीस्ट एक्शन सत्यमस्ति। किन्तु आध्यात्मिकक्षेत्रे ये पापाः सन्ति, ते न्यूनतमे पथे विक्षेपं कर्तुं शक्ताः सन्ति। अयमेव सांकृति-वृकस्य कथायाः सारमस्ति।

सोमस्य आतिथ्येष्ट्याः अयं चित्रः फाल्गुनकृष्णचतुर्थी, विक्रमसंवत् २०७६ तिथौ हरिद्वारनगरे आयुष्कामनवरात्रसोमयागतः गृहीतमस्ति।

            ऐतरेयब्राह्मणे ३.४० कथनमस्ति - सोममेव राजानं क्रीयमाणमनु यानि कानि च भेषजानि तानि सर्वाण्यग्निष्टोममपियन्त्यग्निमातिथ्ये मन्थन्त्यग्निं चातुर्मास्येष्वातिथ्यमेवानु चातुर्मास्यान्यग्निष्टोममपियन्ति । आतिथ्ये अरणिमन्थनं केन प्रकारेण भवति, अस्य कथनं शतपथब्राह्मणे ३.४.१.२२ अस्ति –

अथाधरारणिं निदधाति । उर्वश्यसीत्यथोत्तरारण्याज्यविलापनीमुपस्पृशत्यायुरसीति तामभिनिदधाति पुरूरवा असीत्युर्वशी वा अप्सराः पुरूरवाः पतिरथ यत्तस्मान्मिथुनादजायत तदायुरेवमेवैष एतस्मान्मिथुनाद्यज्ञं जनयत्यथाहाग्नये मथ्यमानायानुब्रूहीति

अरणिमन्थनात् यस्याग्नेः जननं भवति, तस्य का संज्ञा अस्ति। यज्ञायज्ञीयस्तोत्रे कथनमस्ति – प्र प्र वयममृतं जातवेदसं। अयं अग्निः अमृता जातवेदा अस्ति। पुराणेषु यदा पुरूरवा अरणिमन्थनं करोति, तदा आयुसंज्ञकस्य पुत्रस्य उत्पत्तिः भवति।

     सोमस्य आतिथ्येष्ट्याः सम्बन्धं चातुर्मासेष्टिना सह अस्ति, ऐतरेयब्राह्मणस्य अयं कथनं पुराणेषु चातुर्मासव्रतस्य संदर्भे या धारणा अस्ति – यत् चातुर्मासे विष्णुः शयनं करोति, तस्य पुष्टिं करोति। सोमयागे, यावत् सोमः अतिथिरूपः भवति, तस्य अभिषवणं न भवति। प्रवर्ग्यकर्मोपरि एव तस्य अभिषवणं भवति। अतः अयं सोमस्य, विष्णोः, शयनरूपमेवास्ति।

 

पुराणेषु अष्टावक्रऋषेः कथा सार्वत्रिकरूपेण वर्णितः अस्ति। कृष्णस्य बाल्यकालस्य वर्णने एकः अघासुरः अजगरः अस्ति यः सर्वेषां गोपानां निगरणं करोति। अष्टावक्रेणैव अघासुरं शापं दत्तवान् येन सः  अजगरः अभवत् (गर्गसंहिता २.६.११, ४.२३. )। अघ अर्थात् पाप। अ-घ, यत्र घनता नास्ति, विरलता अस्ति। यत्र पापाः सन्ति, तेषां उदयः चिरकालपर्यन्तं न भवेत्, अयं अपेक्षा अस्ति। अयं कार्यं पापानां रूपान्तरं अजगररूपे करणेन सफलं भवति। ये पुण्याः सन्ति, तेषां रूपान्तरणं सुपर्णरूपे भवति।

 

जातवेदसोपरि टिप्पणी

वृकोपरि टिप्पणी

 

चातुर्मास्य (चतुर्मास-)

१. वरुणप्रघासे उदवसानीयेष्टि -- निर्मथ्याग्नी पौर्णमासेन यजत उत्सन्नयज्ञ इव वाऽ एष यच्चातुमास्यानि । माश , , , ४८

त्र्यम्बकहविर्यागः -- निर्मथ्याग्नी पौर्णमासेन यजत उत्सन्नयज्ञ इव वाऽ एष यच्चातुमास्यानि । माश २. ६,, १९

२. चातुर्मास्यानि पञ्चहोता । मै १, , ५ ।

३. चातुर्मास्यानि पञ्चहोतुः (निदानम् ) । तै २, , ११, ६ ।

४. त्रेधाविहितानि चातुर्मास्यानि । मै १,१०,७ ।

५. भैषज्ययज्ञा वा एते यश्चातुर्मास्यानि तस्मादृतुसंधिषु प्रयुज्यन्त । कौ ५,; गो २,,१९ ।

६. य एवं विद्वांश्चातुर्मास्यैर्यजते परा भ्रातृव्यं नुदते, प्र प्रजया प्र पशुभिर्जायते । काठ ३५,२०।

ऽग्निष्टोमाद्वैश्वदेवं यज्ञक्रतुं निर्माय प्रजापतिः प्रजा असृजतोक्थ्याद्वरुणप्रघासान् यज्ञक्रतुं निर्माय प्रजा वरुणेनाग्राहयदतिरात्रात् साकमेधान् यज्ञक्रतुं निर्मायेन्द्रो वृत्रमहन्  काठ ३५,२०

७. वैश्वदेवेन वै ते चतुरो मासोऽयुवन्त वरुणप्रघासैः पराँश्चतुरस्साकमेधैः पराँश्चतुरस्तानेव भ्रातृव्याद्युवते यच्चतुरश्चतुरो मासोऽयुवन्त तच्चातुर्मास्यानां चातुर्मास्यत्वम्  । काठ ३६,

८. दीक्षोपसत् --यत् पयस्या तेन चातुर्मास्यानि । जै , ३८

९. यं द्वितीयं स्वमुन्नयति तद्वै चातुर्मास्यानां रूपम् । जै १,४० ।

१०. यश्चातुर्मास्यैर्यजते स सहस्रयाजी । मै १,,६ ।

११. विराजो वा एषा विक्रान्तिर्यच्चातुर्मास्यानि । तै १, ,,५।

१३. श्रोत्राय कं चातुर्मास्यानि इज्यन्ते । मै १, ,५।

१४. संवत्सर वै चातुर्मास्यानि । मै १,१०,७।

सर्वं चातुर्मास्यानि । गो २,,२६ ।

१५. स वा एष प्रजापतिश्चतुर्विंशो यश्चातुर्मास्यानि तस्य मुखम् एव वैश्वदेवम् बाहू वरुणप्रघासाः प्राणो ऽपानो व्यान इत्य् एतास् तिस्र इष्टयः आत्मा महाहविः प्रतिष्ठा शुनासीरम्  । गो ,,२६ ॥            

[स्य-असुर- २१ मै १.१०.५ द्र.।

चातुर्मास्य-याजिन्

१. शुनासीरीयपर्व-- अक्षय्य ह वै सुकृतं चातुर्मास्ययाजिनो भवति । माश ,,,

२. देवानां वा एष आनीतो यश्चातुर्मास्ययाजी । तै १,, , ७ ।

३. वैश्वदेवेन चतुरो मासोऽयुवत , वरुणप्रघासैः परांश्चतुरः , साकमेधैः परांश्चतुरः......यस्त्रयोदशं मास संपादयति त्रयोदशं मासमभिजयते स चातुर्मास्ययाजी । मै ,१०,

४. स परममेव स्थानं परमां गतिं गच्छति चातुर्मास्ययाजी। माश ,, ,

ऋतुषु ह खलु वा एष संवत्सरं स्वर्गं लोकम् अप्येति यश् चातुर्मास्ययाजी। स वसन्तम् एव प्रथमेनाह्नाप्येति, ग्रीष्मं द्वितीयेन,

 वर्षास् तृतीयेन, शरदं चतुर्थे, हेमन्तं पञ्चमेन, शिशिरं षष्ठेन। संवत्सरम् एव शुनासीर्येणाप्येति। जै २.२३४