Make your own free website on Tripod.com

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Chandramaa to Jaleshwara)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Chandramaa - Chandrashekhara ( words like Chandramaa / moon, Chandrarekhaa etc.)

Chandrashree - Champaka (Chandrasena, Chandrahaasa, Chandraangada, Chandrikaa, Chapahaani, Chapala, Chamasa, Champaka etc.)

Champaka - Chala (Champaa, Chara / variable, Charaka, Charana / feet, Charchikaa, Charma / skin, Charu, Chala / unstable etc. )

Chaakshusha - Chaamundaa  (Chaakshusha, Chaanakya, Chaanuura, Chaandaala, Chaaturmaasa, Chaandraayana, Chaamara, Chaamundaa etc.)

Chaamundaa - Chitta ( Chaaru, Chaarudeshna, Chikshura, Chit, Chiti, Chitta etc.)

Chitta - Chitraratha ( Chitta, Chitra / picture, Chitrakuuta, Chitragupta, Chitraratha etc. )

Chitraratha - Chitraangadaa ( Chitralekhaa, Chitrasena, Chitraa, Chitraangada etc. ) 

Chitraayudha - Chuudaalaa (Chintaa / worry, Chintaamani, Chiranjeeva / long-living, Chihna / signs, Chuudamani, Chuudaalaa etc.)

Chuudaalaa - Chori  ( Chuuli, Chedi, Chaitanya, Chaitra, Chaitraratha, Chora / thief etc.)

Chori - Chhandoga( Chola, Chyavana / seepage, Chhatra, Chhanda / meter, Chhandoga etc.)

Chhaaga - Jataa  (Chhaaga / goat, Chhaayaa / shadow, Chhidra / hole, Jagata / world, Jagati, Jataa / hair-lock etc.)

Jataa - Janaka ( Jataayu, Jathara / stomach, Jada, Jatu, Janaka etc.)

Janaka - Janmaashtami (Janapada / district, Janamejaya, Janaardana, Jantu / creature, Janma / birth, Janmaashtami etc.)

Janmaashtami - Jambu (Japa / recitation, Jamadagni, Jambuka, Jambu etc. ) 

Jambu - Jayadratha ( Jambha, Jaya / victory, Jayadratha etc.)

Jayadhwaja - Jara  ( Jayadhwaja, Jayanta, Jayanti, Jayaa, Jara / decay etc. )  

Jara - Jaleshwara ( Jaratkaaru, Jaraa / old age, Jaraasandha, Jala / water etc.)

 

 

 

चित्रकूट

टिप्पणी

कथासरित्सागरे वेतालपञ्चविंशति मध्ये कथा अस्ति यत् चित्रकूटस्य नृपकुमारः चन्द्रावलोकः मृगया हेतु वनमगात्। तत्र सः इन्दीवरप्रभा नाम्न्यां एकां कन्यां पश्यति। नृपकुमारः तस्य पितां कण्व मुनिं कन्या हेतु याचनां करोति। मुनिः तं उपदिशति यत् निरीह प्राणिनां वधं उचितं नास्ति। तस्य परिणामं तथैव भवति यथा राजा पाण्डुः मृगया कारणेन नष्टमभूत्। मुनिः स्वकन्यां तस्मै अददत्।   कन्या प्राप्ति पश्चात् सः स्वनगरं प्रति प्रस्थितः सन् मार्गे रात्रौ अश्वत्थतरु मूले विश्रामं करोति एवं नव भार्यायाः सुखं अनुभवं करोति। प्रातःकाले तस्य अश्वत्थस्य देवता ज्वालामुख नामकः एकः ब्रह्मराक्षसः प्रकटीभवति एवं नृपात् भार्याजीवनरक्षण शुल्क रूपेण सप्तदिनान्तरे एकस्य सप्ताब्दवर्षीयस्य द्विजबालकस्य जीवनग्रहणस्य अपेक्षां करोति। भयभीतः राजा तस्य शुल्कं स्वीकरोति एवं तस्य पितृभ्यः प्रभूत धनं प्रदाय द्विजबालकस्य क्रयं करोति। यदा राजा द्विजबालकस्य बलिं दातुं उद्धतो भवति तदा बालकः प्रथमतः हसति एवं तत्पश्चात् रोदति। एवं विक्रमं राजानं कथां कथयित्वा वेतालः विक्रमादित्यं पृच्छति किं कारणेन बालकः प्रथमं अहसत्, तत्पश्चात् अरुदत्। विक्रमः उत्तरं ददाति यत् अनश्वर स्वदेहस्य रक्षणार्थं मम बलिं दास्यति, इति विचिन्त्य बालकः अहसत्। तत्पश्चात् मम देहस्यान्तः ब्रह्मराक्षस्य तृप्ति हेतु भविष्यति, इति विचिन्त्य सः अरुदत्। भविष्यपुराणे अपि अयं कथा संक्षेपरूपेण अस्ति। तत्र नृपकुमार चन्द्रावलोक स्थाने रूपदत्तं नामास्ति। तस्य प्रियायाः इन्दीवरप्रभायाः कोपि नाम नास्ति, नैव तस्य पितुः कण्व मुनेः उल्लेखमस्ति।

            अस्य कथायाः अभिगम हेतु प्रथमं चित्रकूटः किं भवति, अस्य विषये चिन्तनं अपेक्षणीयः। दत्तात्रेययोगशास्त्रात् संकेतं प्राप्यते यत् स्वचित्तस्य देहस्य कस्यापि प्रदेशे एकाग्रीकरणं, यत्र चित्तस्य लयं भवति, चित्रकूटं नाम धारयितुं शक्नोति। अयं प्रदेशः भ्रूमध्यं, अथवा हृदयादि भवितुं शक्यते। यदा वयं कस्मिंश्चित् विषये चिन्तनं कुर्वामः, तदा आवां चित्तः तस्मिन् विषये लीनं भवति। अतः तत् विषयमपि चित्रकूट संज्ञा ग्रहीतुं शक्नोति। पुराणेषु सार्वत्रिक रूपेण कथनं अस्ति यत्र चित्रकूटस्य देवता रामः अस्ति(वराह १२.२ एवं शक्तिः सीता अस्ति (देवीभागवत  ७.३०.७०, मत्स्य १३.३९, स्कन्द ५.३.१९८.७७)। वाल्मीकि रामायणे कथनं अस्ति यत् यदा भरतः रामस्य अन्वेषण हेतु स्वसेनया सार्द्धं चित्रकूटं गच्छति, तत्र तस्य सेना धूम्रस्य दर्शनेन रामस्य चित्रकूटोपरि विद्यमानतायाः अनुमानं करोति(अयोध्याकाण्डम् २.९३.२१)। अयं संकेतः अस्ति यदा वयं कस्मिंश्चिद् विषये चिन्तनं कुर्मः, तदा तस्य विषये ज्ञानं न सहसा ईश्वररूपेण, रामरूपेण प्रकटयति, अपितु धूम्र, धूमिल दृष्टिरूपेणैव प्रकटयति।

     विक्रम वेताल कथायां नृपकुमारस्य नाम चन्द्रावलोकमस्ति। बहुष्सु पर्वेषु वयं चन्द्रमसः उदयं प्रतीक्षन्ते एवं चन्द्रस्य दर्शनेनोपरि एवं भोजनं कुर्वामः। अयं चन्द्रावलोकः नृपकुमार एव। चन्द्र अर्थात् या कापि परिस्थितिः रौद्ररूपा अस्ति, सा चन्द्रसदृशी शीतलं भवतु। जीवने न किंचिदपि रौद्रता क्षुधा, पिपासा इत्यादि शेषमस्तु। चन्द्रावलोकस्य शक्तिः इन्दीवरप्रभा भवति। इन्दीवरप्रभायाः कः रहस्यार्थमस्ति, अयं अन्वेषणीयः। चन्द्रमसि शशस्य विद्यमानता अस्ति। पुराणेषु कथनं भवति यत् अस्य पृथिव्याः एकः भागः शशमस्ति, त्रयो भागाः पिप्पलमस्ति। शशे सर्वं शान्त अवस्थायां भवति। न कोपि रौद्रता। पिप्पले रौद्रता भवति, यथा अस्मिन् कथायां अश्वत्थात् ज्वालामुख ब्रह्मराक्षसः प्रकटीभवति। यदा शशस्य शान्त अवस्था भवति, तदा शकुनानां प्राकट्यं भवति, यथा दुष्यन्तस्य कथायां शकुनाः शकुन्तलायाः पालनं कुर्वन्ति(शकुन्तला शब्दस्य टिप्पण्यां कथितं भवति)। अस्य कथायाः कण्व पुत्री शकुन्तला सह दुष्यन्तस्य परिणय कथायां साम्यमस्ति। वर्तमान कथायां कण्व पुत्र्याः नाम इन्दीवरप्रभा अस्ति। दुष्यन्त स्थाने चन्द्रावलोक नामास्ति।

     वेतालस्य कथायां ब्रह्मराक्षसः इन्दीवरप्रभा युवति जीवन हेतु सप्तदिनान्तरे सप्तवर्षीयस्य द्विजबालकस्य जीवनस्य वाञ्छां करोति। सप्तदिनस्य तात्पर्यं भागवतपुराणस्य माहात्म्ये वर्णितमस्ति यत् भागवतपुराणस्य सप्तदिवस श्रवणानन्तरं वंशे स्थितस्य पिशाचस्य क्रमशः मुक्तिरभवत्। अतः सप्तदिनानि साधनायाः क्रमिक स्तराः सन्ति। तेषां सप्तसु दिवसेषु मध्ये प्रथम षट् दिवसाः कठोर साधनायाः प्रतीकाः सन्ति एवं सप्तम दिवसः साधना मध्ये रसस्य प्राकट्यस्य संकेतमस्ति, एवं डा. फतहसिंहस्य कथनमस्ति। यथा कथायां द्विजबालकस्य जीवनस्य बलिः अपेक्षितं अस्ति, तथैव वैदिक एवं पौराणिक कथानकेषु शुनःशेपाख्यानं अस्ति। तत्र हरिश्चन्द्रस्य पुत्रः रोहितः सप्तवर्ष पर्यन्तं अरण्ये विहरति। प्रतिवर्षोपरान्तं सः नगरे प्रत्यागन्तुं विचारं करोति, किन्तु इन्द्रः विचरणकर्तुं, पापानां नाशं कर्तुं प्रेरयति। अन्ततः सप्तमे वर्षे सः शुनःशेपस्य क्रयं करोति। अतः सप्ताब्दानि अपि पापानां नाशनस्य युक्ति एव।