Make your own free website on Tripod.com

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Chandramaa to Jaleshwara)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Chandramaa - Chandrashekhara ( words like Chandramaa / moon, Chandrarekhaa etc.)

Chandrashree - Champaka (Chandrasena, Chandrahaasa, Chandraangada, Chandrikaa, Chapahaani, Chapala, Chamasa, Champaka etc.)

Champaka - Chala (Champaa, Chara / variable, Charaka, Charana / feet, Charchikaa, Charma / skin, Charu, Chala / unstable etc. )

Chaakshusha - Chaamundaa  (Chaakshusha, Chaanakya, Chaanuura, Chaandaala, Chaaturmaasa, Chaandraayana, Chaamara, Chaamundaa etc.)

Chaamundaa - Chitta ( Chaaru, Chaarudeshna, Chikshura, Chit, Chiti, Chitta etc.)

Chitta - Chitraratha ( Chitta, Chitra / picture, Chitrakuuta, Chitragupta, Chitraratha etc. )

Chitraratha - Chitraangadaa ( Chitralekhaa, Chitrasena, Chitraa, Chitraangada etc. ) 

Chitraayudha - Chuudaalaa (Chintaa / worry, Chintaamani, Chiranjeeva / long-living, Chihna / signs, Chuudamani, Chuudaalaa etc.)

Chuudaalaa - Chori  ( Chuuli, Chedi, Chaitanya, Chaitra, Chaitraratha, Chora / thief etc.)

Chori - Chhandoga( Chola, Chyavana / seepage, Chhatra, Chhanda / meter, Chhandoga etc.)

Chhaaga - Jataa  (Chhaaga / goat, Chhaayaa / shadow, Chhidra / hole, Jagata / world, Jagati, Jataa / hair-lock etc.)

Jataa - Janaka ( Jataayu, Jathara / stomach, Jada, Jatu, Janaka etc.)

Janaka - Janmaashtami (Janapada / district, Janamejaya, Janaardana, Jantu / creature, Janma / birth, Janmaashtami etc.)

Janmaashtami - Jambu (Japa / recitation, Jamadagni, Jambuka, Jambu etc. ) 

Jambu - Jayadratha ( Jambha, Jaya / victory, Jayadratha etc.)

Jayadhwaja - Jara  ( Jayadhwaja, Jayanta, Jayanti, Jayaa, Jara / decay etc. )  

Jara - Jaleshwara ( Jaratkaaru, Jaraa / old age, Jaraasandha, Jala / water etc.)

 

 

 

जमदग्नि

पौराणिकग्रन्थेषु जमदग्निविषयकानि ये कथानकाः सन्ति, तेषां व्याख्या वैदिकग्रन्थेषु उपलब्धेषु कथनेभिः कर्तुं शक्यन्ते ।। पौराणिकग्रन्थेषु जमदग्नि विषये यः वैशिष्ट्यमस्ति, तदयमस्ति-

*चरोः विपर्ययात् जमदग्नेः एवं विश्वामित्रस्य जन्म

*जमदग्नेः नामनिरुक्तिः वैष्णवाग्नेः जमनम्/यमनम्। अयं कथनं संकेतं करोति यत् व्यक्तित्व विशेषे सृजन, पालन एवं संहारकर्तॄणां अग्नीनां/ऊर्जानां मात्राः सीमितानि सन्ति। अनेन कारणेन, एवं न भवेत् यत् या अग्निः पालनकर्तृका अस्ति,तस्याः उपयोगं संहारकरणे, रोगानां ध्वंसने, क्रोधकरणे भवेत्। अथवा सृजनकार्ये भवेत्। यदि पालनकर्तृकायाः अग्नेः दुरुपयोगं न भविष्यति, तर्हि तस्याः अग्नेः उपयोगं विष्णोः ३२ विशिष्टलक्षणानां जनने भविष्यति।

*रेणुका नाम्न्याः जमदग्नेः भार्यायाः अस्तित्वं

रेणुकोपरि टिप्पणी

*पुराणेषु सार्वत्रिक रूपेण जमदग्नेः भार्यारूपेण रेणुकायाः उल्लेखमस्ति यस्य वैदिकस्रोतं अज्ञातमस्ति। अयं प्रतीयते यत् रेणुका शब्दः ऋणात्मका प्रकृत्याः संकेतमस्ति। स्कन्दपुराणे जमदग्निना उदयपर्वते मृगावती राज्ज्ञाः रक्षणस्य कथनमस्ति, या उदयनं पुत्रं जनयति। एषा मृगावती पूर्वजन्मे अलंबुषा अप्सरा आसीत्। डा. फतहसिंहस्य अनुमानमस्ति यत् अलंबुषा नितान्त ऋणावस्थायां प्राप्तायां प्रकृत्याः संकेतमस्ति(लौकिक भाषायां बुसा हुआ, बासी)। पुराणेषु जमदग्नेः विशेषता अस्ति यत् सः अग्नेः जमनं- यमनं कर्तुं शक्नोति। अयं यमनं ऋणात्मतायाः धनात्मकं प्रति प्रापणं प्रतीयते। व्यावहारिक रूपेण अयं जमनं(प्रेरणं, लौकिक भाषायां-दधिहेतु दुग्धस्य आतञ्चनम्, जामनं) जमदग्निः केन प्रकारेण करोति, अयं अद्यापि रहस्यमस्ति।

*हैहयवंशीय नृपेण कार्तवीर्येण जमदग्नेः हननम्, पितृभिः संज्ञानरूपे पुनः सञ्जीवनम्(भागवतपुराणम् ९.१६.२४)।

वैदिकग्रन्थेषु जमदग्निविषये यानि विशिष्टकथनानि उपलब्धानि सन्ति, तानि अधोलिखितानि सन्ति

*ऐतरेय ब्राह्मणे ४.२६ जमदग्नेः सर्वा प्रकृत्याः उल्लेखमस्ति। विश्वामित्रस्य प्रकृतिः विश्वा प्रकारा अस्ति, जमदग्नेः सर्वा प्रकारा। सर्वा प्रकृतिः बहिर्मुखी प्रकृतिरस्ति एवं विश्वा अन्तर्मुखी, एष डा. फतहसिंहस्य अनुमानमस्ति। सर्वा प्रकृत्याः द्विप्रकाराः सन्ति। एका सर्वा प्रकृति भागवतपुराणस्य निम्नलिखित श्लोकोपरि आधारिता अस्ति

ऊष्माणमिन्द्रियाण्याहुः अन्तःस्था बलमात्मनः। - भागवत ३.१२.४७

अनेनानुसारेण, या ऊर्जा आत्मनः बलं भवितुं न शक्यते, सा इन्द्रियाणां बलं रूपेण प्रकटयति। अयं नैसर्गिका स्थितिरस्ति। अन्या सर्वा प्रकृतिः सा भविष्यति यत्र ऊर्जायाः, अग्नेः आत्मनः बलं भवने कोपि अवरोधं नास्ति। तदा या ऊर्जा सर्वा भविष्यति, सा वरदान-शापात्मिका भविष्यति। अयं जमदग्नेः प्रकृतिरस्ति। अनेन कारणेन जमदग्नेः प्रतिमायाः रूपं वरदानात्मकं अस्ति।

*ऋग्वेदस्य अयं ऋचा जमदग्निऋषेः वैशिष्ट्यस्य निदर्शनाय अस्ति-

आप इद्वा उ भेषजीरापो अमीवचातनीः।

आपः सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम्॥ ऋ. १०.१३७.०६(दे. जमदग्निः)

अस्मिन् ऋचायाम् आपः सर्वस्य भेषजी इत्युल्लिखितमस्ति। वैदिकसाहित्ये आपः किं भवति, अस्य किंचित् निदर्शनं आपः उपरि टिप्पणीषु उपलब्धमस्ति। कथनमस्ति यत् अप्सु यः प्रवाहगुणं अस्ति, अप्सु ये ऊर्मयः सन्ति, तेषां सर्वेषां गुणानां कारणं अपःसु निहिता अग्निरस्ति। अत्र आपः जीवनशक्त्याः, चेतनशक्त्याः प्रतीकमस्ति, अयं प्रतीयते।

*तैत्तिरीयसंहितायाम्  , , , कथनमस्ति यत् भूतं एवं भव्यं तिरोहिताः आसन्। जमदग्निना तेषां प्रत्यक्षं कृतमासीत्। अत्र भूतं एवं भव्यं सर्वा प्रकृत्याः एव गुणाः सन्ति, अयं प्रतीयते। योगवासिष्ठ ६.१.९३ अनुसारेण चित्तस्य संज्ञा सर्वमस्ति। चित्तस्य नाशनानन्तरं चित्तमेव संज्ञानं, विज्ञानं भवति। अस्य कथनस्य तुलना भागवतपुराण ९.१६.२४ सह करणीयं अस्ति यत्र परशुरामस्य अवभृथस्नानानन्तरं जमदग्नेः संजीवनं संज्ञानरूपेण भवति।

महाभारते आश्व० ९२ ॥ ४१-४६(९५.३)  आख्यानं अस्ति यत् जमदग्नेः परीक्षाहेतु यमस्य पयःसु क्रोधरूपेण प्रवेशमभवत् येन कारणेन अयं पयः दूषितमभवत्। अयं पयः जमदग्निना पितृ निर्वाप हेतु निर्धारितमासीत्। अस्योपरि जमदग्नेः कोपि प्रतिक्रिया नासीत्, किन्तु पितृभिः यमः शापितमभवत्। शापकारणेन यमः नकुलमभवत्। यदा नकुलस्य संवादं युधिष्ठिरं सह अभवत्, तदा नकुलस्य उद्धारमभवत्। अस्मिन् आख्याने यः पयः अस्ति, तत् विशुद्धचित्तस्य प्रतीकमेवास्ति। नकुलशब्दोपरि टिप्पणी पठितव्यमस्ति।

*सर्वशब्दोपरि ये वैदिक कथनाः(गोपथ ब्राह्मणम् १.५.१५) उपलब्धाः सन्ति, तेभिः अयं प्रतीयते यत् सर्व स्थित्याः सम्यक् विकसनं भर्ग स्थितितः क्रमिक रूपेण महः, यशः माध्यमेन भवति। जमदग्नेः यः प्रतिमा उपलब्धमस्ति, तस्मिन् जमदग्निः वरमुद्रायां स्थितः अस्ति। शतपथ ब्राह्मण २.२.१.४, ५.२.३.१ एवं १३.४.१.१० अनुसारेण वरदान सामर्थ्यमपि सर्वा स्थितिः एव भवति।

*जैमिनीयब्राह्मणे १.१५२ जमदग्निः माहेनानां राज्ञां पुरोहितः आसीत्, अयं कथनमस्ति। तस्य वित्तं राज्ञेभ्यः अधिकमासीत्। कालान्तरे जमदग्निः राज्ञां ग्राम्याणां पशूनां हननस्योपायं कुरुते। अस्मिन् ग्रन्थे ये माहेनानां राजानः सन्ति, पुराणेषु तेषां संज्ञा माहिष्मतीनां राजानः अस्ति। तेषां अपरसंज्ञा हैहय अस्ति। डा. फतहसिंहानुसारेण हैहय शब्दे द्विहयानां अस्तित्वमस्ति हय-हय। विश्वामित्रस्य वैशिष्ट्यं एकैव हयोपरि अस्ति। पुराणेषु हैहयेषु किंचित् असुरत्वं दृष्टिगोचरं भवति।

*वैदिकग्रन्थुषु जमदग्नेः प्रकृतिः वैराजप्रकारस्य अस्ति एवं विश्वामित्रस्य वैरूपप्रकारस्य(सत्यस्य अपूर्णदर्शनम्)। अन्यत्र(तै.सं. ४.३.२) विश्वामित्रस्य दिक् पश्चिमा दिगस्ति एवं जमदग्नेः उत्तरा दिक्( शतपथ ब्राह्मणे ८.१.२.३ जमदग्नेः पश्चिमा दिगस्ति एवं विश्वामित्रस्य उत्तरा दिक्)। सोमयागे पृष्ठ्यषडहस्य चतुर्थदिवसस्य संज्ञा वैराजं भवति। अस्य दिवसस्य एकं वैशिष्ट्यं भवति ओजो हाउ, बलं हाउ, सहो हाउ इति।

*राजसूययागे जमदग्निः अध्वर्युः अस्ति एवं विश्वामित्रः होता(शां.श्रौ.सू. १५.२१)। यथा अध्वर्यु शब्दस्य टिप्पण्यां कथितमस्ति, पृथिवीतत्त्वतः अग्नेः संज्ञानकरणं होता ऋत्विजस्य कार्यमस्ति एवं वायोः तत्त्वतः प्राणानां संज्ञानकरणं, प्राणेषु आदित्यस्य संज्ञानकरणं अध्वर्योः कार्यमस्ति। एवंरूपेण, वाक्/शकुनाः अग्नेः रूपं सन्ति एवं मनः प्राणानां विकसितरूपं। अध्वर्युः गौर्वत्सः भवति। सः गोः प्रकृतितः पूर्णतः परिचितं भवति। गोः कार्यं आदित्यस्य रश्मीनां सम्यक् उपयोगकरणं भवति।

विश्व सर्व - कहा गया है कि समुद्र छन्दोम है । भागवत पुराण के सातवें, आठवें और नवें स्कन्धों के वर्णन से इस छन्दोम समुद्र को समझने में सहायता मिल सकती है । भागवत पुराण के सातवें स्कन्ध में मुख्य रूप से हिरण्यकशिपु और प्रह्लाद की कथा आती है । आठवें स्कन्ध में समुद्र मन्थन और मोहिनी अवतार द्वारा अमृत वितरण की कथा आती है । ऐसा प्रतीत होता है कि पहले ६ अह तो सर्व को विश्व बनाने की तैयारी है और जब विश्व बन जाए, सारी प्रजा अन्तर्मुखी हो जाए तो फिर उसको नियन्त्रित रूप में बहिर्मुखी बनाया जाता है ।

संदर्भाः 

*आप इद्वा उ भेषजीरापो अमीवचातनीः।

आपः सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम्॥ ऋ. १०.१३७.०६(दे. जमदग्निः)

*जमदग्नेः सप्ताहमभिचरन् वा भ्रातृव्यवान् वा कुर्वीत । जमदग्निश्च माहेनानां पुरोहित आस । स एतत् सामापश्यत् । तेनास्तुत । ततो वै स तेषां ( माहेनानाम्) सप्त सप्तैकाहानि ग्राम्यानां पशूनामहन् । जै १.१५२

*जमदग्नेः सप्तहं विद्रथं चक्षूंषीति (घोराणि सामानि) । जै , १७०

*अथाकामयत जमदग्निर्भूमानं प्रजया पशुभिर्गच्छेयमिति, स एतं सप्तदशं स्तोम-

मपश्यत्तमाहरत्तेनायजत । जै ,२१८

*जमदग्निर्वा अकामयत बहु प्रजया पशुभिः प्रजायेयेति स एतं चतूरात्रं यज्ञमपश्यत् । - जै ,२८५

*जमदग्निर्ह वै माहेनानां पुरोहित आस । जै. ,३१०

*विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेताम् स एतज्जमदग्निर्विहव्यमपश्यत्, तेन वै स वसिष्ठस्येन्द्रियं वीर्यमवृङ्क्त । तैसं , , , (तु तैसं ,, ११, ) ।।

*द्वादशाहे पृश्निग्रहाः - प्रजापतिर् विराजम् अपश्यत् तया भूतं च भव्यं चासृजत ताम् ऋषिभ्यस् तिरो ऽदधात् तां जमदग्निस् तपसाऽपश्यत् तया वै स पृश्नीन् कामान् असृजत तत् पृश्नीनाम् पृश्नित्वम् तैसं , , ,

टिप्पणी- आ नो भद्राः (ऋ. १.८९.१) इत्येतन्नित्यप्रयोगे वैश्वदेवशस्त्रगतं सूक्तं, तस्य स्थाने ममाग्ने वर्चो विहवेष्वस्तु(तै.सं. ४.७.१४) इत्येतत् सूक्तं मात्सर्यग्रस्तः प्रयुञ्जीत - सायणभाष्य

*जमदग्निः पुष्टिकामश् चतूरात्रेणायजत

स एतान् पोषाम्̇ अपुष्यत्

तस्मात् पलितौ जामदग्नियौ न सं जानाते

एतान् एव पोषान् पुष्यति य एवं विद्वाम्̇श् चतूरात्रेण यजते तै.सं. ७.१.९

 *प्रजापतिर्वै जमदग्निः । माश. १३,, , १४

*जमदग्निः पुष्टिकाम एतम् आहरत् स इमान् पोषानपुष्यत् तां २१.१०.५

*जमदग्निर्वै पुष्टिमपश्यत्, तामात्मन्नधत्त, यत्कर्करिणीः कुरुते, पशुष्वेव पुष्टिं धत्ते ।- मै ४, ,९ ।

दीक्षा - तस्याप्रियो जामदग्न्यो भवन्ति तदाहुर्यदन्येषु पशुषु यथऋष्याप्रियो भवन्त्यथ कस्मादस्मिन्सर्वेषां जामदग्न्य एवेति सर्वरूपा वै जामदग्न्यः सर्वसमृद्धाः सर्वरूप एष पशुः सर्वसमृद्धस्तद्यज्जामदग्न्यो भवन्ति सर्वरूपतायै सर्वसमृद्ध्यै। - ऐ ,२६

*अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम्।

रश्मीँरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः॥ ऋ. १.१४१.११

*जमदग्निः कश्यपः स्वाद्वेतद्भरद्वाजो मध्वन्नं कृणोतु !

प्रतिग्रहीत्रे गोतम वसिष्ठो विश्वामित्रो नः प्र तिरात्यायुः ।।पै.सं. २.२८. ।।

 *राजसूयप्रकरणम् - तस्य ह विश्वामित्रो होतामायास्य उद्गाता जमदग्निरध्वर्युर्वसिष्ठो ब्रह्मा  ।  तस्मा उपाकृताय नियोक्तारं न विविदुः  । - शां.श्रौ.सू. १५.२१

Audio

Audio

*जमदग्निऋचीकस्य सत्यवत्यां व्यजायत ।
भृगोश्च रुचिपर्याये रौद्रवैष्णवयोस्तथा ॥93॥
जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत ।
रेणुका जमदग्नेस्तु शक्रतुल्यपराक्रमम् ।
ब्रह्मक्षत्रमयं रामं सुषुवेऽमिततेजसम् ॥वायु २.४.94

*इक्ष्वाकुवंशे त्वभवत्सुवेणुर्नाम पार्थिवः ॥86॥
तस्य कन्या महाभागा कामली नाम रेणुका ।
रेणुकायान्तु कामल्यां तपोधृतिसमन्वितः ।
आर्चीको जनयामास जमदग्निः सुदारुणम् ॥87॥
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ।
रामं क्षत्रिय हन्तारं प्रदीप्तमिव पावकम् ॥वायु २.२९.88
*यत्कुट्यां मूर्तिमानग्निर्यमत्यर्पितभोजनम्।

जमदग्निः स वै ख्यातो नर्मदातटमावसन्।। - लक्ष्मीनारायण १.२४४.१९

*स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम्

ऋषीणां मण्डले सोऽभूत्सप्तमो रामपूजितः  भागवत ९.१६.२४

संज्ञानं किं भवति, अस्मिन् संदर्भे ऋग्वेदः १०.१९१ द्रष्टव्यमस्ति

सर्वोपरि वैदिकसंदर्भाः