पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Jalodbhava to Tundikera) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
जातवेदस् *उदु त्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम्॥ - तै.सं. 1.4.43.1 *जातवेदः शिवो भव। - तै.सं. 4.1.9.4 *जातवेदस उपदिश्यस्य स्थाने स्वतेजसा भानि। - तै.आ. 1.18.1 *तद्यज्जातं जातं विन्दते तस्माज्जातवेदाः। - मा.श. 9.5.1.68 *प्राणो वै जातवेदाः स हि जातानां वेद। - ऐ.ब्रा. 2.39 *यज्जातः पशूनविन्दत तज्जातवेदसो जातवेदस्त्वम्। - मै.सं. 1.8.2 *या वा अग्नेर्जातवेदास्तनूस्तयैव प्रजा हिनस्त्यग्निहोत्रे भागधेयमिच्छमानः – काठ.सं. 6.7 *वायुर्वै जातवेदा वायुर्हीदं सर्वं करोति यदिदं किंच। - ऐ.ब्रा. 2.34 *सो ऽब्रवीज्जाता वै प्रजा अनेनाविदमिति यदब्रवीज्जाता वै प्रजा अनेनाविदमिति तज्जातवेदस्यमभवत्तज्जातवेदसो जातवेदस्त्वम्। - ऐ.ब्रा. 3.36 *जातवेदसे सुनवाम सोमम् इति जातवेदस्याऽच्युता। - ऐ.ब्रा. 4.32, 5.2, 5.8, 5.15, 5.17, 5.19, 5.21 *स्वस्त्ययनं वै जातवेदस्या। - ऐ.आ. 1.5.3(तु. ऐ. 4.30) *एषा वा अस्य(अग्नेः) जातवेदस्या तनूः क्रूरैतया वा एष पशून्शमायते। - मै.सं. 1.8.6 |