Home page

Chandramaa - Chandrashekhara ( words like Chandramaa / moon, Chandrarekhaa etc.)

Chandrashree - Champaka (Chandrasena, Chandrahaasa, Chandraangada, Chandrikaa, Chapahaani, Chapala, Chamasa, Champaka etc.)

Champaka - Chala (Champaa, Chara / variable, Charaka, Charana / feet, Charchikaa, Charma / skin, Charu, Chala / unstable etc. )

Chaakshusha - Chaamundaa  (Chaakshusha, Chaanakya, Chaanuura, Chaandaala, Chaaturmaasa, Chaandraayana, Chaamara, Chaamundaa etc.)

Chaamundaa - Chitta ( Chaaru, Chaarudeshna, Chikshura, Chit, Chiti, Chitta etc.)

Chitta - Chitraratha ( Chitta, Chitra / picture, Chitrakuuta, Chitragupta, Chitraratha etc. )

Chitraratha - Chitraangadaa ( Chitralekhaa, Chitrasena, Chitraa, Chitraangada etc. ) 

Chitraayudha - Chuudaalaa (Chintaa / worry, Chintaamani, Chiranjeeva / long-living, Chihna / signs, Chuudamani, Chuudaalaa etc.)

Chuudaalaa - Chori  ( Chuuli, Chedi, Chaitanya, Chaitra, Chaitraratha, Chora / thief etc.)

Chori - Chhandoga( Chola, Chyavana / seepage, Chhatra, Chhanda / meter, Chhandoga etc.)

Chhaaga - Jataa  (Chhaaga / goat, Chhaayaa / shadow, Chhidra / hole, Jagata / world, Jagati, Jataa / hair-lock etc.)

Jataa - Janaka ( Jataayu, Jathara / stomach, Jada, Jatu, Janaka etc.)

Janaka - Janmaashtami (Janapada / district, Janamejaya, Janaardana, Jantu / creature, Janma / birth, Janmaashtami etc.)

Janmaashtami - Jambu (Japa / recitation, Jamadagni, Jambuka, Jambu etc. ) 

Jambu - Jayadratha ( Jambha, Jaya / victory, Jayadratha etc.)

Jayadhwaja - Jara  ( Jayadhwaja, Jayanta, Jayanti, Jayaa, Jara / decay etc. )  

Jara - Jaleshwara ( Jaratkaaru, Jaraa / old age, Jaraasandha, Jala / water etc.)

 

 

चषाल

सोमयागे प्राच्यां दिशि एकस्य काष्ठस्तम्भस्य स्थापनं भवति यस्य संज्ञा यूपः अस्ति। यूपस्य शृङ्गतः किंचित् अवरभागे चषालसंज्ञका एका चक्रिका निर्मिता भवति । सार्वत्रिकरूपेण कथनमस्ति यत् गौधूमं चषालम्( शतपथ ब्राह्मण ५.६.१.२ इत्यादि)। वैदिकवाङ्मये अन्यत्र गोधूमस्य उल्लेखं नास्ति। धूमशब्दविषये धारणा अस्ति यत् ज्ञानस्य प्रथमावस्था धूम्रप्रकारा, अस्पष्टा एव भवति। अस्यावस्थायाः संज्ञा धूमकेतुः अस्ति। वैदिकवाङ्मये धूम्नः ये उल्लेखाः सन्ति, तेषु धूमस्य जननं अग्नेः जननस्य प्राक् अथवा घृतादि आहुतीनां काले भवति। धूमस्य प्रकृतिः आहुतीनां प्रकृत्योपरि आधृता अस्ति (ऋ. ५.०११.०३ )। अपि च, भूम्नोपरि यः धूमः भवति, तस्य कृष्णं वर्णं भवति। यदा-यदा धूमः आकाशे प्रसरति, तस्य वर्णः शुक्लं भवति (ऋ. .००२.०६, अ. १८..५९)। अन्ततः धूमः अभ्रः, मेघः भवति। ऋग्वेदस्य प्रसिद्धा ऋक् अस्ति –

शकमयं धूममारादपश्यं विषूवता पर एनावरेण।

उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन्॥ .१६४.४३

अत्र शकशब्दः शुकशब्दस्य छद्मरूपं प्रतीयते, यः शकुनस्य पूर्वकथनं करोति।

गोधूम्नः संदर्भे, धूम्नः साकं गोशब्दस्य किं तात्पर्यं भवितुं शक्यते। अनुमानमस्ति यत् पृथिवी यदा सूर्यस्य रश्मीनां सम्यक् आकर्षणे समर्था भवति, तदा तस्याः संज्ञा गौः भवति। तदा सा गुरुत्वाकर्षणस्य नियन्त्रणे अपि समर्था भवति। अयं विचित्रं प्रतीयते यत् धूमः अग्नेः अवयवः अस्ति, किन्तु वर्तमानसंदर्भे अयं गोः अवयवः अस्ति। अग्निः भूम्याः ज्योतिः अस्ति। सूर्योदयस्य उदयावस्थायाः वर्गीकरणं चतुर्धा कृतमस्ति – अश्व, गौ, अवि, अज। केन कारणेन अत्र गवामेव चयनं कृतमस्ति। ऋ. १.१६२.६ कथनमस्ति –

यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति ।

अयं संकेतमस्ति यत् यः यूपः अस्ति, तत् अश्वप्रकारस्य अस्ति। अश्व अर्थात् यस्य चेतना अश्वमिव चतुर्दिक्षु प्रसरणे समर्था अस्ति। तस्मिन् यूपे अयं गोप्रकारस्य चषालः अलंकरणरूपः अस्ति। बौ.श्रौ.सू. १७.१२ कथनमस्ति - रशनसंमितां मनुष्यलोककामस्येति ...चषालसंमितामिन्द्रियकामस्येति। यूपस्य चषालतः अवरभागः रशनया आवेष्टितः भवति। कथनमस्ति यत् यः चषालभागः अस्ति, तत् इन्द्रियाणां ऊर्जाभरणे उत्तरदायी अस्ति। अन्यशब्देषु, यूपस्य यः शृङ्गभागः अस्ति, तत् ब्राह्मणप्रकारस्य, प्रेम्णः भागः अस्ति। यः चषालभागः अस्ति, तत् क्षत्रप्रकारस्य अस्ति। क्षत्रियः एव इन्द्रियाणां सम्यक् उपयोगकरणे समर्थः अस्ति, सः इन्द्रः अस्ति। कथनमस्ति यत् यूपस्य स्फ्यप्रभृति ये अन्य प्रकाराः भवन्ति, ते चषालरहिताः भवन्ति(बौ.श्रौ.सू. २४.३५)।

अयं प्रतीयते यत् चषालस्य परोक्षरूपं चक्षालं, चक्षणं अस्ति (दिवीव चक्षुराततम् - बौ.श्रौ.सू. ४.४)।

वैदिकवाङ्मये यद्यपि गोधूमस्य अल्पोल्लेखः अस्ति, किन्तु यव-व्रीहयोः प्रभूतमुल्लेखमस्ति। डा. फतहसिंह कथयति यत् व्रीहिः आनन्दमयकोशस्य अवस्था अस्ति, या एकला अस्ति। आनन्दमयकोशतः ये अवराः चेतनावस्थाः सन्ति, तेषां संज्ञा यवाः अस्ति। आभासीरूपेण, यवः द्वित्वस्य सन्धिरूपः अस्ति। एवमेव, चेतना द्वित्वप्रकारा अस्ति। एकः कोशः अग्रिम अथवा अवरकोशेन सह संधितः अस्ति। अस्मिन् ब्रह्माण्डे ये ऊर्जास्रोताः सन्ति, तेषां सह यवप्रकारस्य बन्धनं अपेक्षितमस्ति। यत्र बन्धनस्य लोपः अस्ति, तत्र अतृप्त तृष्णायाः आविर्भावं भविष्यति। धूमस्य विषये उल्लेखाः सन्ति यत् यदायदा अस्य आकाशे प्रगतिः भवति, अयं वयः, सुपर्णस्य रूपं धारयति (मा.श. ६.३.३.१९, ७.३.१.२९)। वयः यवशब्दस्य विलोमं अस्ति।

संदर्भाः

यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति ।
ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ॥१.१६२.६

 शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् ।
वाघद्भिर्वा विहवे श्रोषमाणा अस्माँ अवन्तु पृतनाज्येषु ॥३.८.१०

इन्द्रस्य चषालं असीति , ऐन्द्रं हि चषालं सुपिप्पला ओषधीस्कृधीति , ओषधीरेव फलं ग्राहयति, तस्मादोषधयः शीर्षन् फलं गृह्णन्ति – मै.सं. ३.९.३

पुरस्तात्पार्श्वतश्चषालमुपनिदधाति – माश ३.७.१.३

अथ चषालमुभयतः प्रत्यज्य प्रतिमुञ्चति । सुपिप्पलाभ्यस्त्वौषधीभ्य इति पिप्पलं हैवास्यैतद्यन्मध्ये संगृहीतमिव भवति तिर्यग्वा इदं वृक्षे पिप्पलमाह तं स यदेवेदं सम्बन्धनं चान्तरोपेनितमिव तदेवैतत्करोति तस्मान्मध्ये संगृहीतमिव भवति - ...१२

गौधूमं चषालं भवति । पुरुषो वै प्रजापतेर्नेदिष्ठं सोऽयमत्वगेते वै पुरुषस्यौषधीनां नेदिष्ठतमां यद्गोधूमास्तेषां न त्वगस्ति मनुष्यलोकमेवैतेनोज्जयति माश ५.६.१.२

यवकलापिश्चषालम्  - शां.श्रौ.सू. १४.४०.९

अचषालः १७ कलापी चषालः १८ इत्यागन्तुका विकाराः – आश्व.श्रौ.सू. ९.७

अष्टाश्रिं करोत्युपरवर्जम् २६ अग्राच्चषालं पृथमात्रमष्टाश्रि मध्यसङ्गृहीतम् ६.१.२७

अथ प्रवृह्य चषालं यूपस्याग्रमनक्ति देवस्त्वा सविता मध्वानक्त्वित्यन्तरतश्च बाह्यतश्च स्वभ्यक्तं कृत्वा चषालं प्रतिमुञ्चति सुपिप्पलाभ्यस्त्वौषधीभ्य इति .... यत्राग्निष्ठामश्रिमाहवनीयेन संपादयति तद्ध्रुवस्य चषालं परेक्षयति तद्विष्णोः परमं पदँ  सदा पश्यन्ति सूरयः दिवीव चक्षुराततमित्यथैनं प्रदक्षिणं पुरीषेण पर्यूहति – बौ.श्रौ.सू. ४.४

रशनसंमितां मनुष्यलोककामस्येति ...चषालसंमितामिन्द्रियकामस्येति - – बौ.श्रौ.सू. १७.१२

प्रतोददण्ड एव यूपः प्रतोदपरिषेवणं चषालं  – बौ.श्रौ.सू. १८.२४

स्फ्यो यूपो भवतीति... अचषाल एष भवति – बौ.श्रौ.सू. २४.३५

देवस्त्वा सविता मध्वाऽनक्त्वित्यग्रमैन्द्रमसीति चषालम् ।

सुपिप्पलाभ्यस्त्वौषधीभ्य इति चषालं प्रतिमुञ्चति । - सत्याषाढ श्रौ.सू. ४.२.७

शृङ्गाणीवेच्छृङ्गिणा संददृश्रिरे चषालवन्तः   स्वरवः पृथिव्याम् । ते देवासः स्वरवस्तस्थिवासो  नमः सखिभ्यः सन्नान्माऽवगातेति ॥ सत्याषाढ श्रौ.सू.  ६.८.२५ ॥

गोधूमपिष्टचषालो गोधूमकलापी वा  आप.श्रौ.सू. १८.१.