Home page

Chandramaa - Chandrashekhara ( words like Chandramaa / moon, Chandrarekhaa etc.)

Chandrashree - Champaka (Chandrasena, Chandrahaasa, Chandraangada, Chandrikaa, Chapahaani, Chapala, Chamasa, Champaka etc.)

Champaka - Chala (Champaa, Chara / variable, Charaka, Charana / feet, Charchikaa, Charma / skin, Charu, Chala / unstable etc. )

Chaakshusha - Chaamundaa  (Chaakshusha, Chaanakya, Chaanuura, Chaandaala, Chaaturmaasa, Chaandraayana, Chaamara, Chaamundaa etc.)

Chaamundaa - Chitta ( Chaaru, Chaarudeshna, Chikshura, Chit, Chiti, Chitta etc.)

Chitta - Chitraratha ( Chitta, Chitra / picture, Chitrakuuta, Chitragupta, Chitraratha etc. )

Chitraratha - Chitraangadaa ( Chitralekhaa, Chitrasena, Chitraa, Chitraangada etc. ) 

Chitraayudha - Chuudaalaa (Chintaa / worry, Chintaamani, Chiranjeeva / long-living, Chihna / signs, Chuudamani, Chuudaalaa etc.)

Chuudaalaa - Chori  ( Chuuli, Chedi, Chaitanya, Chaitra, Chaitraratha, Chora / thief etc.)

Chori - Chhandoga( Chola, Chyavana / seepage, Chhatra, Chhanda / meter, Chhandoga etc.)

Chhaaga - Jataa  (Chhaaga / goat, Chhaayaa / shadow, Chhidra / hole, Jagata / world, Jagati, Jataa / hair-lock etc.)

Jataa - Janaka ( Jataayu, Jathara / stomach, Jada, Jatu, Janaka etc.)

Janaka - Janmaashtami (Janapada / district, Janamejaya, Janaardana, Jantu / creature, Janma / birth, Janmaashtami etc.)

Janmaashtami - Jambu (Japa / recitation, Jamadagni, Jambuka, Jambu etc. ) 

Jambu - Jayadratha ( Jambha, Jaya / victory, Jayadratha etc.)

Jayadhwaja - Jara  ( Jayadhwaja, Jayanta, Jayanti, Jayaa, Jara / decay etc. )  

Jara - Jaleshwara ( Jaratkaaru, Jaraa / old age, Jaraasandha, Jala / water etc.)

 

 

चित्त

संदर्भ

*तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न् तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान्। तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति॥ - ऋ. १.१६३.११

*न नू॒नमस्ति॒ नो श्वः कस्तद् वे॑द॒ यदद्भु॑तम्। अ॒न्यस्य॑ चि॒त्तम॒भि संच॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति॥ - ऋ. १.१७०.१

*आ यस्ते॑ सर्पिरासुते ऽग्ने॒ शमस्ति॒ धाय॑से। ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये॑षु धाः॥ - ऋ. ५.७.९

*सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं॑ वया॒किनं॑ चि॒त्तग॑र्भासु सु॒स्वरुः॑। - ऋ. ५.४४.५

*यो नो॑ मरुतो अ॒भि दु॑र्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघांसति। द्रु॒हः पाशा॒न् प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ हन्म॑ना हन्तना॒ तम्॥ - ऋ. ७.५९.८

*अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या। युजं॒ वाजे॑षु चोदय॥ - ऋ. ९.६५.१२

*अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि। अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम्॥ - ऋ. १०.१०३.१२

*अग्ने॑ म॒न्युं प्र॑तिनु॒दन् परे॑षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम्। प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॒३॒॑मैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत्॥ - ऋ. १०.१२८.६

*अ॒भि॒भूर॒हमाग॑मं वि॒श्वक॑र्मेण॒ धाम्ना॑। आ व॑श्चि॒त्तमा वो॑ व्र॒तमा वो॒ऽहं समि॑तिं ददे॥ - ऋ. १०.१६६.४

*स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे॑षाम्। स॒मा॒नं मन्त्र॑म॒भि म॑न्त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि॥ - ऋ. १०.१९१.३

*ऐषां॑ य॒ज्ञमु॒त वर्चो॑ ददे॒ऽहं रा॒यस्पोष॑मु॒त चि॒त्तान्य॑ग्ने। स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम्॥ - शौ.अ. १.९.४

*जि॒ह्वाया॒ अग्रे॒ मधु॑ मे जिह्वामू॒ले म॒धू॒ल॑कम्। ममेदह॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि॥ - शौ.अ. १.३४.२

*सं चेन्नया॑थो अश्विना का॒मिना॒ सं च॒ वक्ष॑थः। सं वां॒ भगा॑सो अग्मत॒ सं चि॒त्तानि॒ समु॑ व्र॒ता॥ - शौ.अ. २.३०.२

*प्रसू॑त इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न्। ज॒हि प्र॒तीचो॑ अ॒नूचः॒ परा॑चो॒ विष्व॑क् स॒त्यं कृ॑णुहि चि॒त्तमे॑षाम्॥ - शौ.अ. ३.१.४

*अ॒ग्निर्नो॑ दू॒तः प्रत्येतु॑ वि॒द्वान् प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्। स चि॒त्तानि॑ मोहयतु परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः॥ - शौ.अ. ३.२.१

*अ॒यम॒ग्निर॑मूमुह॒द् यानि॑ चि॒त्तानि॑ वो हृ॒दि। वि वो॑ धम॒त्वोक॑सः॒ प्र वो॑ धमतु स॒र्वतः॑॥ - शौ.अ. ३.२.२

*इन्द्र॑ चि॒त्तानि॑ मो॒हय॑न्न॒र्वाङाकू॑त्या चर। अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तानि विषू॑चो॒ वि ना॑शय॥ - शौ.अ. ३.२.३

*व्याकूतय एषामि॒ताथो॑ चि॒त्तानि॑ मुह्यत। अथो॒ यद॒द्यैषां॑ हृ॒दि तदे॑षां॒ परि॒ निर्ज॑हि॥ - शौ.अ. ३.२.४

*अ॒मीषां॑ चि॒त्तानि॑ प्रतिमो॒हय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि। अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॒र्ग्राह्या॒मित्रां॒स्तम॑सा विध्य॒ शत्रू॑न्॥ - शौ.अ. ३.२.५

*प्रैणा॑न् नु॒दे मन॑सा॒ प्र चि॒त्तेनो॒त ब्रह्म॑णा। प्रैणा॑न् वृ॒क्षस्य॒ शाख॑याश्व॒त्थस्य॑ नुदामहे॥ - शौ.अ. ३.६.८

*अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑। मम॒ वशे॑षु हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑॥ - शौ.अ. ३.८.६, ६.९४.२

*ए॒षां क्ष॒त्रम॒जर॑मस्तु जि॒ष्ण्वे॒३॒॑षां चि॒त्तं विश्वे॑ऽवन्तु दे॒वाः॥ - शौ.अ. ३.१९.५

*आजा॑मि॒ त्वाज॑न्या॒ परि॑ मा॒तुरथो॑ पि॒तुः। यथा॒ मम॒॑ क्रता॒वसो॒ मम चि॒त्तमु॒पाय॑सि॥ - शौ.अ. ३.२५.५

*व्यस्यै मित्रावरुणो हृ॒दश्चि॒त्तान्य॑स्यतम्। अथै॑नामक्र॒तुं कृ॒त्वा ममै॒व कृ॑णुतं॒ वशे॑॥ - शौ.अ. ३.२५.६

*अपा॑ञ्चो यन्तु नि॒वता॑  दुर॒स्यवो॒ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत्॥ - शौ.अ. ५.३.२

*उ॒त न॒ग्ना बोभु॑वती स्वप्न॒या स॑चसे॒ जन॑म्। अरा॑ते चि॒त्तं वीर्त्स॒न्तयाकू॑तिं॒ पुरु॑षस्य च॥ - शौ.अ. ५.७.८

*य ए॑नं॒ हन्ति॑ मृ॒दुं मन्य॑मानो देवपी॒युर्धन॑कामो॒ न चि॒त्तात्। सं तस्येन्द्रो॒ हृद॑ये॒ऽग्निमि॑न्ध उ॒भे ए॑नं द्विष्टो॒ नभ॑सी॒ चर॑न्तम्॥ - शौ.अ. ५.१८.५

*यथा॑ मृ॒गाः संवि॒जन्त॑ आर॒ण्याः पुरु॑षा॒दधि। ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय॥ यथा॒ वृका॑दजा॒वयो॒ धाव॑न्ति ब॒हु बिभ्य॑तीः। ०००॥ यथा॑ श्ये॒नात् प॑त॒त्रिणः॑ संवि॒जन्ते॒ अह॑र्दिवि सिं॒हस्य॑ स्त॒नथो॒र्यथा॑। ००० शौ.अ. ५.२१.४-६

*मम॑ त्वा दोषणि॒श्रियं॑ कृ॒णोमि॑ हृदय॒श्रिय॑म्। यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि॥ - शौ.अ. ६.९.२

*अ॒भि ति॑ष्ठामि ते म॒न्युं पार्ष्ण्या॒ प्रप॑देन च। यथा॑व॒शो न वादिषो॒ मम॑ चि॒त्तमु॒पाय॑सि॥ - शौ.अ. ६.४२.३

*वि ते॑ हन॒व्यां॒ श॒रणिं॒ वि ते॒ मुख्यां॑ नयामसि। यथा॑व॒शो न वादि॑षो॒ मम॑ चि॒त्तमु॒पाय॑सि॥ - शौ.अ. ६.४३.३

*स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं व्र॒तं स॒ह चि॒त्तमे॑षाम्। स॒मा॒नेन॑ वो ह॒विषा॑ जुहोमि समा॒नं चेतो॑ अभि॒संवि॑शध्वम्॥ - शौ.अ. ६.६४.२

*अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑। मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑॥ - शौ.अ. ६.९४.२, ३.८.६

*यो नो॒ मर्तो॑ मरुतो दुर्हृणा॒युस्ति॒रश्चित्तानि॑ वसवो॒ जिघां॑सति। द्रु॒हः पाशा॒न् प्रति॑ मुञ्चतां॒ सस्तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम्॥ - शौ.अ. ७.८२.२

*व॒शाया॑ य॒ज्ञ आयु॑धं॒ तत॑श्चि॒त्तम॑जायत॥ - शौ.अ. १०.१०.१८

*आ॒शिष॑श्च प्र॒शिष॑श्च सं॒शिषो॑ वि॒शिष॑श्च॒ याः। चि॒त्तानि॒ सर्वे॑ संक॒ल्पाः शरी॑र॒मनु॒ प्रावि॑शन्॥ - शौ.अ. ११.१०.२७

*ये बा॒हवो॒ या इष॑वो॒ धन्व॑नां वी॒र्याणि च। अ॒सीन् प॑र॒शूनायु॑धं चित्ताकू॒तं च॒ यद्धृ॒दि। सर्वं॒ तद॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय॥ - शौ.अ. ११.११.१

*मुह्य॑न्त्वेषां बा॒हव॑श्चित्ताकू॒तं च॒ यद्धृ॒दि। मैषा॒मुच्छे॑षि॒ किं च॒न र॑दि॒ते अ॑र्बुदे॒ तव॑॥ - शौ.अ. ११.११.१३

*आकू॑तिं दे॒वीं सु॒भगां॑ पु॒रो द॑धे चि॒त्तस्य॑ मा॒ता सु॒हवा॑ नो अस्तु। यामा॒शामे॑मि॒ केव॑ली॒ सा मे॑ अस्तु॒ विदे॑यमेनां॒ मन॑सि॒ प्रवि॑ष्टाम्॥ - शौ.अ. १९.४.२

*पितृमेधः चि॒त्तँँ सं॑ता॒नेन॑ भ॒वं य॒क्ना रु॒द्रं तनि॑म्ना - - - - -तै.सं. १.४.३६.१

*जयाः चि॒त्तं च॒ चित्ति॒श्चाऽऽकू॑तं॒ चाऽऽकू॑तिश्च॒ विज्ञा॑तं च वि॒ज्ञानं॑ च॒ मन॑श्च॒ शक्व॑रीश्च॒ - - -  -प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छत् - तै.सं. ३.४.४.१

निर्विकल्पकज्ञानेन प्रतीतं वस्तु चित्तम्। चित्तिः सविकल्पज्ञानम्। - सायण भाष्य

येन चेतयते तत् चित्तम्। चित्तिः चेतना भट्टभास्कर भाष्य

*अग्न्युत्पादनम् आकू॑तिम॒ग्निं प्र॒युजँ॒ँ स्वाहा॒ मनो॑ मे॒धाम॒ग्निं प्र॒युजँ॒ँ स्वाहा॑ चि॒त्तं विज्ञा॑तम॒ग्निं प्र॒युजँ॒ँ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निं प्र॒युजँ॒ँ स्वाहा॑ तै.सं. ४.१.९.१

*आहवनीयचयनार्थं भुवः कर्षणम् (हे अग्निद्वय) इष॒मूर्ज॑म॒भि सं॒वसा॑नौ॒ सं वां॒ मनाँ॑ँसि॒ सं व्र॒ता समु॑ चि॒त्तान्याऽक॑रम्। - तै.सं. ४.२.५.१

*अश्वस्तोमीया होमाः तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न् तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान्। तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्राऽर॑ण्येषु॒ जर्भु॑राणा चरन्ति॥ - तै.सं. ४.६.७.४

ध्रजीमान् अत्यन्त गतिमान् सायण भाष्य

*वसोर्धाराः चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक् च॑ मे॒ मन॑श्च मे॒ तै.सं. ४.७.१.२

*विहव्या इष्टकाः अ॒ग्निर्म॒न्युं प्र॑तिनु॒दन् पु॒रस्ता॒दद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम्। प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॑ऽमैषां॑ चि॒त्तं प्र॒बुधा॒ वि ने॑शत्॥ - तै.सं. ४.७.१४.३

निगुतः नितरां गमनशीलाः, पलायनपराः सायण भाष्य

*उख्याग्निनयनम् -- -प्रा॒णैरे॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैनं॑ चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैनँ॒ँ सम॑र्धयति तै.सं. ५.२.२.२, ५.४.६.२

*योक्त्रं॒ गृध्रा॑भिर्यु॒गमान॑तेन चि॒त्तं मन्या॑भिः - - - तै.सं. ५.७.१४.१

गृध्राः कक्षाः। युगं कृतत्रेतादि। आनतं ग्रीवाप्रदेशः। मन्या ग्रीवारेखाः। - सायण भाष्य

*वाग्वै सोमक्रयणी निदानेन। - - - अथोपनिष्क्रम्याभिमन्त्रयते चिदसि मनासि(वा.सं. ४.१९) इति। चित्तं वाऽइदं मनो वागनुवदति। - श.ब्रा. ३.२.४.१५

*स जुहोति आकूतिमग्निं प्रयुजं स्वाहा इति। - - - मनो मेधामग्निं स्वाहा इति। - - - -चित्तं विज्ञातमग्निं प्रयुजं स्वाहा इति। चित्ताद्वाऽएतदग्रे कर्म समभवत्। तदेवैतदेतस्मै कर्मणे प्रयुङ्क्ते। वाचो विधृतिमग्निं प्रयुजं स्वाहा इति। वाचो वाऽएतदग्रे कर्म समभवत्। तामेवैतदेतस्मै कर्मणे प्रयुङ्क्ते। - श.ब्रा. ६.६.१.१७

*अनस उपरि उख्याग्नि स्थापनं अथैनमुद्यच्छति। उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः इति। विश्वे वाऽएतमग्रे देवाश्चित्तिभिरुदभरन्। एतद्ध्यस्य तदा चित्तमासीत्। तथैवैनमयमेतच्चित्तिभिरुद्भरति। एतद्ध्यस्य तदा चित्तं भवति। - श.ब्रा. ६.८.१.७

*उख्याग्नौ होमम्? -- अथ वैश्वकर्मणीं जुहोति। विश्वकर्माऽयमग्निः। तमेवैतत्प्रीणाति। चित्तिं जुहोमि मनसा घृतेन इति। चित्तमेषां जुहोमि मनसा च घृतेन चेत्येतत्। यथा देवा इहागमन् इति। यथा देवा इहागच्छानित्येतत्। वीतिहोत्रा ऋतावृधः इति । सत्यवृध इत्येतत्। - - - श.ब्रा. ९.२.३.४२

*तदाहुः यस्याग्नावग्निमभ्युद्धरेयुः। किं तत्र कर्म। का प्रायश्चित्तिरिति। - - - सं वां मनाँँसि संव्रता समु चित्तान्याकरम्। - - -श.ब्रा. १२.४.३.४

*प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑। स ए॒तं दश॑होतारमश्यत्। तेन॑ दश॒धाऽऽत्मानं॑ वि॒धा॑य। दश॑होत्राऽतप्यत। तस्य॒ चित्तिः॒ स्रुगासी॑त्। चि॒त्तमाज्य॑म्। तस्यै॒ताव॑त्ये॒व वागासी॑त्। ए॒तावा॑न्यज्ञक्र॒तुः। स चतु॑र्होतारमसृजत।-- - - - तै.ब्रा. 2.2.4.1

चित्तिर्निर्विकल्पकज्ञानहेतुभूताऽन्तःकरणवृत्तिः। चित्तं सविकल्पकज्ञानसाधनमन्तःकरणं। - सायण भाष्य। तैत्तिरीय संहिता ३.४.४.१ के सायण भाष्य में चित्त को निर्विकल्प व चित्ति को सविकल्प अन्तःकरणवृत्ति कहा गया है। इससे प्रतीत होता है कि भाष्यकार को भी इस विषय में भ्रान्ति रही है। चित्ति॒ और चि॒त्त में उदात्त-अनुदात्त भेद द्रष्टव्य हैं।

*- - - -चि॒त्तं मे॒ सहः॑। बा॒हू मे॒ बल॑मिन्द्रि॒यम्। हस्तौ॑ मे कर्म॑ वी॒र्य॑म्। - - - - नाभि॑र्मे चि॒त्तं वि॒ज्ञान॑म्। पा॒युर्मेऽप॑चितिर्भ॒सत्। आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे॑। भगः॒ सौभा॑ग्यं॒ पसः॑। इति। - तै.ब्रा. २.६.५.५

पायुर्विज्ञानं विसर्गज्ञानकुशलोऽस्तु सायण भाष्य

*साद्यमानाया ध्रुवाया अनुमन्त्रणे मन्त्रम् यो मा॑ वा॒चा मन॑सा दुर्मरा॒युः। हृ॒दाऽरा॑ती॒याद॑भि॒दास॑दग्ने। इ॒दम॑स्य चि॒त्तमध॑रं ध्रु॒वायाः॑। अ॒हमुत्त॑रो भूयासम्। अध॑रे॒ मत्स॒पत्नाः॑। - तै.ब्रा. ३.७.६.५

*प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा। - मुण्डकोपनिषत् ३.१.९

*चित्तं च चेतयितव्यं च प्रश्नोपनिषत् ४.८

*चित्तं वाव संकल्पाद्भूयो यदा वै चेतयतेऽथ संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि। तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपिबहुविदचित्तो भवति नायमस्तीत्येवैतमाहुर्यदयं वेद यद्वा अयं विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति तस्मा एवोत शुश्रुषन्ते चित्तँँ ह्येवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति। स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितो - - - - - -ऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति। ध्यानं वाव चित्ताद्भूयो - - - - - छान्दोग्योपनिषत् ७.५.१

*उदक्रमीच्चित्तम्। न शृणोति न पश्यति न वाचा वदति न ध्यायत्यथास्मिन्प्राण एवैकधा भवति - - - - कौषीतकिब्राह्मणोपनिषत् ३.३

*चित्तमेव हि संसारं तत्प्रयत्नेन शोधयेत्। यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम्। चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम्। प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते। समासक्तं यथा चित्तं जन्तोर्विषयगोचरे। यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात्। - मैत्रायण्युपनिषत् ६.३४, मैत्रेय्युपनिषत् १.४.७

*सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः। नादमेवानुसंदध्यान्नादे चित्तं विलीयते॥ मकरन्दं पिबन्भृङ्गो गन्धान्नापेक्षते तथा। नादासक्तं सदा चित्तं विषयं न हि काङ्क्षति॥ बद्धः सुनादगन्धेन सद्यः संत्यक्तचापलः। नादग्रहणतश्चित्तमन्तरङ्गभुजङ्गमः॥ विस्मृत्य विश्वमेकाग्रः कुत्रचिन्न हि धावति॥ - नादबिन्दूपनिषत् ४१

*न मानं नावमानं च संत्यक्त्वा तु समाधिना। अवस्थात्रयमन्वेति न चित्तं योगिनः सदा॥ - - - चित्तं स्थिरं यस्य विनावलम्बं स ब्रह्मतारान्तरनादरूप। - नादबिन्दूपनिषत् ५४

*वृत्तयश्चत्वारः मनोबुद्धिरहंकारश्चित्तं चेति। - नारदपरिव्राजकोपनिषत् ५.१

*मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रस्तत्राधिदैवतं - - - । बुद्धिरध्यात्मं बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतं - - - । अहंकारोऽध्यात्ममहंकर्तव्यमधिभूतं रुद्रस्तत्राधिदैवतं - - - । चित्तमध्यात्मं चेतयितव्यमधिभूतं क्षेत्रज्ञस्तत्राधिदैवतं नाडी तेषां निबन्धनं यश्चित्ते यश्चेतयितव्ये यः क्षेत्रज्ञे यो नाड्यां यः प्राणे यो विज्ञाने यय आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानम् उपासीताजरममृतमभयम् अशोकमनन्तम्। वागध्यात्मं वक्तव्यमधिभूतम् अग्निस्तत्राधिदैवतं - - - - -सुबालोपनिषत् ५

*वायुः परिचितो यत्नादग्निना सह कुण्डलीम्। भावयित्वा सुषुम्नायां प्रविशेदनिरोधतः। वायुना सह चित्तं च प्रविशेच्च महापथम्। यस्य चित्तं स्वपवनं सुषुम्नां प्रविशेदिह। भूमिरापोऽनलो वायुराकाशश्चेति पञ्चकः। येषु पञ्चसु देवानां धारणा पञ्चधोच्यते। - योगतत्त्वोपनिषद ८२

*चित्तं चरति खे यस्माज्जिह्वा चरति खे यतः। तेनेयं खेचरी मुद्रा सर्वसिद्धनमस्कृता। - योगचूडामण्युपनिषत् ५५, ध्यानबिन्दु उपनिषद ८२

*ज्ञातृत्वं समानयोगेन श्रोत्रद्वारा शब्दगुणो वागधिष्ठित आकाशे तिष्ठति आकाशस्तिष्ठति। मनोव्यानयोगेन त्वग्द्वारा स्पर्शगुणः पाण्यधिष्ठितो वायौ तिष्ठति वायुस्तिष्ठति। बुद्धिरुदानयोगेन चक्षुर्द्वारा रूपगुणः पादाधिष्ठितोऽग्नौ तिष्ठत्यग्निस्तिष्ठति। चित्तमपानयोगेन जिह्वाद्वारा रसगुण उपस्थाधिष्ठितोऽप्सु तिष्ठत्यापस्तिष्ठन्ति। अहंकारः प्राणयोगेन घ्राणद्वारा गन्धगुणो गुदाधिष्ठितः पृथिव्यां तिष्ठति पृथिवी तिष्ठति य एवं वेद। - त्रिशिखब्राह्मणोपनिषत् १.९

*सविषयं मनो बन्धाय निर्विषयं मुक्तये भवति। अतः सर्वं जगच्चित्तगोचरम्। तदेव चित्तं निराश्रयं सनोन्मन्यवस्थापरिपक्वं लययोग्यं भवति। - मण्डलब्राह्मणोपनिषत् ५.१

*तथैव रभसा शुक्लं चन्द्ररूपं हि तप्यते। ऊर्ध्वं प्रवहति क्षुब्धा तदैं भ्रमतेतराम्। तस्यास्वादवशाच्चित्तं बहिष्ठं विषयेषु यत्। तदेव परमं भुक्त्वा स्वस्थः स्वात्मरतो युवा। - योगकुण्डल्युपनिषत् १.७३

*प्राणायामेन चित्तं तु शुद्धं भवति सुव्रत। चित्ते शुद्धे शुचिः साक्षात्प्रत्यग्ज्योतिर्व्यवस्थितः। प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति। प्राणायामपरस्यास्य पुरुषस्य महात्मनः। - जाबालदर्शनोपनिषत् ६.१६

*अस्य शारीरयज्ञस्य यूपरशनाशोभितस्यात्मा यजमानः। बुद्धिः पत्नी। वेदा महर्त्विजः। अहंकारोऽध्वर्युः। चित्तं होता। प्राणो ब्राह्मणाच्छंसी। अपानः प्रतिप्रस्थाता। व्यानः प्रस्तोता। समानो मैत्रावरुणः। - - प्राणाग्निहोत्रोपनिषत् ४.१

*ध्यातृध्याने विहाय निवातस्थितदीपवद्यध्यैकगोचरं चित्तं समाधिर्भवति। तदानीमात्मगोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति। - पैङ्गलोपनिषत् ३.१

*अपि वह्न्यशनाद्ब्रह्मन्विषमश्चित्तनिग्रहः। चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम्। तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः।  - महोपनिषत् ३.२१

*चित्तमेव हि संसारो रागादिक्लेशदूषितम्। तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते। - महोपनिषत् ४.६६

*असंकल्पनशस्त्रेण छिन्नं चित्तमिदं यदा। सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तधा। भव भावनया मुक्तो मुक्तः परमया धिया। धारयात्मानमव्यग्रो ग्रस्तचित्तं चितः पदम्। परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम्। ध्यानतो हृदयाकाशे चिति चिच्चक्रधारया। - महोपनिषत् ४.९१

*अतः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा। विशोकं पदमालम्ब्य निरातङ्कः स्थिरो भव। - महोपनिषत् ४.१०४

*स्वसंकल्पे क्षयं याते समतैवावशिष्यते। समता सर्वभावेषु यासौ सत्यपरा स्थितिः। तस्यामवस्थितं चित्तं न भूयो जन्मभाग्भवेत्। - महोपनिषत् ६.४

*शीतोष्णसुखदुःखाद्यैर्व्याधिर्मानसैस्तथा। अन्यैर्नानाविधैर्जीवैः शस्त्राग्निजलमारुतैः। शरीरं पीड्यते तैस्तैश्चित्तं संक्षुभ्यते ततः। तथा प्राणविपत्तौ तु क्षोभमायाति मारुतः। ततो दुःशतैर्व्याप्तं चित्तं क्षुब्धं भवेन्नृणाम्। देहावसानसमये चित्ते यद्यद्विभावयेत्। तत्तदेव भवेज्जीव इत्येवं जन्मकारणम्। देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः। तस्माज्ज्ञानं च वैराग्यं जीवस्य केवलं श्रमः। पिपीलिका यथा लग्ना देहे ध्यानाद्विमुच्यते। असौ किं वृश्चिकैर्दष्टो देहान्ते वा कथं सुखी। - योगशिखोपनिषत् १.२९

*चित्तं प्राणेन संबद्धं सर्वजीवेषु संस्थितम्। र्जवा सद्वत्सुसंबद्धः पक्षी तद्वदिदं मनः। - योगशिखोपनिषत् १.५९

*यस्य प्राणो विलीनोऽन्तः साधके जीविते सति। पिण्डो न पतितस्तस्य चित्तं दोषैः प्रबाधते। शुद्धे चेतसि तस्यैव स्वात्मज्ञानं प्रकाशते। - योगशिखोपनिषत् १.६४

*चित्तं विनष्टं यदि भासितं स्यात्तत्र प्रतीतो मरुतोऽपि नाशः। न चेद्यदि स्यान्न तु तस्य शास्त्रं नात्मप्रतीतिर्न गुरुर्न मोक्षः। - - - चित्तं विलीनतामेति बिन्दुर्नो यात्यधस्तथा। - योगशिखोपनिषत् १.१२४

*क्षेत्रज्ञः परमात्मा च तयोरैक्यं यदा भवेत्। तदैक्ये साधिते ब्रह्मंश्चित्तं याति विलीनताम्। - योगशिखोपनिषत् १.१३५

*यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति। - योगशिखोपनिषत् ३.१४

*मामनुस्मरतश्चित्तं मय्येवात्र विलीयते। - योगशिखोपनिषत् ३.२५

*अमृतं चिन्तयेन्मूर्ध्नि क्षुत्तृषाविषशान्तये। पृथिव्यां धारयेच्चित्तं पातालगमनं भवेत्। सलिले धारयेच्चित्तं नाम्भसा परिभूयते। अग्नौ संधारयेच्चित्तमग्निना दह्यते न सः। वायौ मनोलयं कुर्यादाकाशगमनं भवेत्। आकाशे धारयेच्चित्तमणिमादिकमाप्नुयात्। - योगशिखोपनिषत् ५.४९

*सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः। तथा विज्ञाततत्त्वोऽसौ मुक्त एव न संशयः। - योगशिखोपनिषत् ५.६२

*चित्ते चलति संसारो निश्चलं मोक्ष उच्यते। तस्माच्चित्तं स्थिरीकुर्यात्प्रज्ञया परया विधे। चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम्। तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः। - योगशिखोपनिषत् ६.५८

*नादो बिन्दुश्च चित्तं च त्रिभिरैक्यं प्रसादयेत्। मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम्। - - -वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत्। समाधिमेकेन मममृतं यान्ति योगिनः। - योगशिखोपनिषत् ६.७२

*येन सम्यक्परिज्ञाय हेयोपादेयमुज्झता। चित्तस्यान्तेऽर्पितं चित्तं जीवितं तस्य शोभते संन्यासोपनिषत् २.४१

*यदा संक्षीयते चित्तमभावात्यन्तभावनात्। चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा। नूनं चैत्यांशरहिता चद्यदात्मनि लीयते। असद्रूपवदत्यच्छा सत्तासामान्यता तदा। - अन्नपूर्णोपनिषत् १.२३

*असक्तं निर्मलं चित्तं युक्तं संसार्यविस्फुटम्। सक्तं तु दीर्घतपसा मुक्तमप्यतिबद्धवत्। - अन्नपूर्णोपनिषत् १.५६

*पटाद्घटमुपायाति घटाच्छकटमुत्कटम्। चित्तमर्थेषु चरति पादपेष्विव मर्कटः। - अन्नपूर्णोपनिषत् ३.६

*सद्योजातशिशुज्ञानं प्राप्तवान्मुनिपुङ्गवः। जहौ चित्तं चैत्यदशां स्पन्दशक्तिमिवानिलः। चित्सामान्यमथासाद्य सत्तामात्रात्मकं ततः। सुषुप्तपदमालम्ब्य तस्थौ गिरिरिवाचलः। - अन्नपूर्णोपनिषत् ३.१६

*सुखदुःखदशाधीरं साम्यान्न प्रोद्धरन्ति यम्। निःश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः। - - - - -यं नयन्ति न वैरूप्यं तस्य नष्टं मनो विदुः। द्विविधश्चित्तनाशोऽस्ति सरूपोऽरूप एव च। जीवन्मुक्तौ सरूपः स्यादरूपो देहमुक्तिगः।चित्तसत्तेह दुःखाय चित्तनाशः सुखाय च। चित्तसत्तां क्षयं नीत्वा चित्त नाशमुपानयेत्। मनस्तां मूढतां विद्धि यदा नश्यति सानघ। चित्तनाशाभिधानं हि तत्स्वरूपमितीरितम्। - अन्नपूर्णोपनिषत् ४.१२

*भावाभावदशाकोशं दुःखरत्नसमुद्गकम्। बीजमस्य शरीरस्य चित्तमाशावशानुगम्। द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः। एकं प्राणपरिस्पन्दो द्वितीयो दृढभावना। यदा प्रस्पन्दते प्राणो नाडीसंस्पर्शनोद्यतः। तदा संवेदनमयं चित्तमाशु प्रजायते। - - - - योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम्। प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्तिकल्पितैः। चित्तोपशान्तिफलदं परमं विद्धि कारणम्। - अन्नपूर्णोपनिषत् ४.४०

*यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि। तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते। यदभावनमास्थाय यदभावस्य भावनम्। यद्यथा वस्तुदर्शित्वं तदचित्तत्वमुच्यते। सर्वमन्तः परित्यज्य शीतलाशयवर्ति यत्। वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम्।- - - - सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः। अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः। - अन्नपूर्णोपनिषत् ४.४९

*न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति। यावन्न तत्त्वविज्ञानं तावच्चित्तशमः कुतः। यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम्। - अन्नपूर्णोपनिषत् ४.७९

*वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम्। प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु। - अन्नपूर्णोपनिषत् ४.८६

*नास्ति चित्तं न चाविद्या न मनो न च जीवकः। ब्रह्मैवैकमनाद्यन्तमब्धिवत्प्रविजृम्भते। देहे यावदहंभावो दृश्येऽस्मिन्यावदात्मता। यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः। अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम्। जुह्वतोऽन्तर्निवर्तन्ते मुने चित्तादिविभ्रमाः। - अन्नपूर्णोपनिषत् ५.१०

*असंवित्स्पन्दमात्रेण याति चित्तमचित्तताम्। प्राणानां वा निरोधेन तदेव परमं पदम्। - - - -यत्र नाभ्युदितं चित्तं तद्वै सुखमकृत्रिमम्। क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति। यस्य चित्तं न चित्ताख्यं चित्तं चित्तत्वमेव हि। तदेव तुर्यावस्थायां तुर्यातीतं भवत्यतः। - अन्नपूर्णोपनिषत् ५.४३

*चित्तसत्ता परं दुःखं चित्तत्यागः परं सुखम्। अतश्चित्तं चिदाकाशे नय क्षयमवेदनात्। - अन्नपूर्णोपनिषत् ५.११७

*- - -भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते। चित्तं तु शरदभ्रांशविलयं प्रविलीयते। सत्त्वावशेष एवास्ते पञ्चमीं भूमिकां गतः। जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात्। - अक्ष्युपनिषत् ३३

*यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन्यं चित्तं न वेद। - अध्यात्मोपनिषत् १

*चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन। अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि। अध्यात्मोपनिषत् २६

*ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम्। निवातदीपवच्चित्तं समाधिरभिधीयते। वृत्तयस्तु तदानीमप्यज्ञाता आत्मगोचराः। - अध्यात्मोपनिषत् ३५

*मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम्। चतुर्विंशतितत्त्वानि तानि ब्रह्मविदो विदुः। - वराहोपनिषत् १.४

*आरोपितस्य जगतः प्रविलापनेन चित्तं मदात्मकतया परिकल्पितं नः। शत्रून्निहत्य गुरुषट्कगणान्निपाताद्गन्धद्विपो भवति केवलमद्वितीयः। - वराहोपनिषत् २.६५

*न देहो नेन्द्रियप्राणो न मनोबुद्ध्यहंकृति। न चित्तं नैव माया च न च व्योमादिकं जगत्। - वराहोपनिषत् ३.१८

*समासक्तं सदा चित्तं जन्तोर्विषयगोचरे। यद्येवं ब्रह्मणि स्यात्तत्को न मु्च्येत बन्धनात्। चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत्। यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम्। - शाट्यायनीयोपनिषत् २

*निष्पत्तौ वैष्णवः शब्दः क्वणतीति क्वणो भवेत्। एकीभूतं तदा चित्तं सनकादिमुनीडितम्। - सौभाग्यलक्ष्म्युपनिषत् २.१०

*दृढाभ्यस्तपदार्थैकभावनादतिचञ्चलम्। चित्तं संजायते जन्मजरामरणकारणम्। वासनावशतः प्राणस्पन्दस्तेन च वासना। क्रियते चित्तबीजस्य तेन बीजाङ्कुरक्रमः। द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने। एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः। असङ्गव्यवहारत्वाद्भवभावनवर्जनात्। शरीरनाशदर्शित्वाद्वासना न प्रवर्तते। वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम्। - मुक्तिकोपनिषत् २.२.२५

*प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम्। असंप्रज्ञातनामायं समाधिर्योगिनां प्रियः। - मुक्तिकोपनिषत् २.२.५४

*यस्मिन्नृचः साम यजूंषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः। यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु। - शिवसङ्कल्पोपनिषत् ६

*योगश्चित्तवृत्तिनिरोधः योगसूत्र १.२

*वीतरागविषयं वा चित्तम्। स्वप्ननिद्राज्ञानालम्बनं वा। - योगसूत्र १.३७

*देशबन्धश्चित्तस्य धारणा। तत्र प्रत्यैकतानता ध्यानम्। - योगसूत्र ३.१

*व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः। - योगसूत्र ३.९

*सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः। - योगसूत्र ३.११

*ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः। - योगसूत्र ३.१२

*हृदये चित्तसंवित् योगसूत्र ३.३४

*बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः। - योगसूत्र ३.३८

*प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम्। तत्र ध्यानजमनाशयम्। कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम्। ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम्। - योगसूत्र ४.५

*वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः। न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्। तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम्। सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात्। न तत्स्वाभासं दृश्यत्वात्। एकसमये चोभयानवधारणम्। चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च। चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसवेदनम्। द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्। तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात्। विशेषदर्शिनः आत्मभावभावनाविनिवृत्तिः। तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्। - योगसूत्र ४.२२