Chandramaa - Chandrashekhara ( words like Chandramaa / moon, Chandrarekhaa etc.) Chandrashree - Champaka (Chandrasena, Chandrahaasa, Chandraangada, Chandrikaa, Chapahaani, Chapala, Chamasa, Champaka etc.) Champaka - Chala (Champaa, Chara / variable, Charaka, Charana / feet, Charchikaa, Charma / skin, Charu, Chala / unstable etc. ) Chaakshusha - Chaamundaa (Chaakshusha, Chaanakya, Chaanuura, Chaandaala, Chaaturmaasa, Chaandraayana, Chaamara, Chaamundaa etc.) Chaamundaa - Chitta ( Chaaru, Chaarudeshna, Chikshura, Chit, Chiti, Chitta etc.) Chitta - Chitraratha ( Chitta, Chitra / picture, Chitrakuuta, Chitragupta, Chitraratha etc. ) Chitraratha - Chitraangadaa ( Chitralekhaa, Chitrasena, Chitraa, Chitraangada etc. ) Chitraayudha - Chuudaalaa (Chintaa / worry, Chintaamani, Chiranjeeva / long-living, Chihna / signs, Chuudamani, Chuudaalaa etc.) Chuudaalaa - Chori ( Chuuli, Chedi, Chaitanya, Chaitra, Chaitraratha, Chora / thief etc.) Chori - Chhandoga( Chola, Chyavana / seepage, Chhatra, Chhanda / meter, Chhandoga etc.) Chhaaga - Jataa (Chhaaga / goat, Chhaayaa / shadow, Chhidra / hole, Jagata / world, Jagati, Jataa / hair-lock etc.) Jataa - Janaka ( Jataayu, Jathara / stomach, Jada, Jatu, Janaka etc.) Janaka - Janmaashtami (Janapada / district, Janamejaya, Janaardana, Jantu / creature, Janma / birth, Janmaashtami etc.) Janmaashtami - Jambu (Japa / recitation, Jamadagni, Jambuka, Jambu etc. ) Jambu - Jayadratha ( Jambha, Jaya / victory, Jayadratha etc.) Jayadhwaja - Jara ( Jayadhwaja, Jayanta, Jayanti, Jayaa, Jara / decay etc. ) Jara - Jaleshwara ( Jaratkaaru, Jaraa / old age, Jaraasandha, Jala / water etc.) |
|
सामान्यरूपेण, ओंकारे त्रयः मात्राणि भवन्ति – अ, उ एवं म। अ मात्रया ऊर्जायाः आदानं भवति। उ मात्रया गृहीतऊर्जायाः सम्यक् भोगस्य प्रबन्धः भवति। म मात्रया या अवशिष्टा ऊर्जा भवति, या पापरूपा ऊर्जा भवति, तस्याः प्रबन्धः भवति। प्रश्नोपनिषदि ५.३ उल्लेखः अस्ति यत् ऊर्जायाः आदानं जगतीछन्दया भवति - स यदि एकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याभिसंपद्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥ जगतीछन्दस्य वैशिष्ट्यं अस्य आदानसामर्थ्यम् अस्ति। यथा जैमिनीयब्राह्मणे सार्वत्रिकरूपेण कथितमस्ति, आदित्यः ब्रह्माण्डे यः श्रेष्ठतमं अस्ति, तस्य आदानं करोति। यथा, गन्धं पृथिव्याः, रसं अपः, ऊर्ज ओषधीनां, चरथं वनस्पतीनां, शिश्नं वयसां, आज्ञां मनुष्याणां आदि। केन प्रकारेण करोति, न ज्ञातमस्ति। व्यवहारे, नैकः सूर्यः अस्ति, अपितु १२ आदित्याः सन्ति। तेषां आदित्यानां जगती गृहः अस्ति (जगत्यैवादित्या गृहिणः । - जै.ब्रा. १,२८०)। जगतीछन्दस्य एके पदे द्वादशाक्षराः भवन्ति। एकैकाक्षरे एकः आदित्यः तिष्ठति। ( )। अस्मिन् ब्रह्माण्डे यः जीवः आदाने दक्षः अस्ति, तस्य संज्ञा गौः अस्ति। सा सूर्यस्य रश्मीनां आदानं सर्वाधिक दक्षतया करोति। किन्तु जगतीविषये कथनमस्ति यत् सा वैरूपा अस्ति। आधुनिकविज्ञानानुसारेण अयं प्रतीयते यत् यदा यन्त्रस्य माध्यमेन रश्मीनां आदानं कुर्वन्ति, तदा तेभ्यः रश्मिभ्यः सूचनायाः आदानमपि भवति, यथा टेलीविजन आदिषु। किन्तु यदा जगतीछन्दतन्त्रेण आदानं भवति, तदा अयं सूचना - आदानं विकृतं भवति। ऐतरेय आरण्यके २.१.६, भागवतपुराणे ३.१२.४५ कथनमस्ति यत् देहे अस्थ्नोपरि जगतीछन्दस्कः आधिपत्यमस्ति। अस्य कथनस्य किं न्यायः संभवमस्ति। काठकसंहिता १६,१९ आदिषु जगत्याः सम्बन्धं वर्षा ऋतुना अस्ति, अयं कथनमस्ति। व्यवहारे, यदा रक्तस्य क्षारीयत्वे परिवर्तनं भवति, तदा अस्थ्नः कैल्शियम तत्वः अस्य नियमनं करोति। अयं नियमनं वर्षारूपमस्ति। यदि अस्थ्नः दक्षतायां वृद्धिर्भवेत्, तर्हि अस्थ्नः रोगप्रतिरोधकक्षमतायाः अपि वर्धनं भवेत्।
यस्याः ऊर्जायाः संग्रहणं जगतीतन्त्रेण भवति, तस्याः किं उपयोगं भवति। वाजसनेयिसंहिता १.२१यां कथनमस्ति यत् रेवत्याः सम्पृञ्चनं जगतीभिः भवति। अस्य कथनस्य व्याख्याने शतपथब्राह्मणे १.२.२.२ कथनमस्ति यत् आपः रेवत्यः सन्ति एवं ओषधयः जगत्यः सन्ति। अस्मिन् लोके ये पुण्यकर्माणि सन्ति, तेषां संज्ञा आपः भवति। रेवत्यः अर्थात् रयिवत्यः। उपनिषदानुसारेण, अमर्त्यस्तरे प्राणः भवति, मर्त्यस्तरे रयिः। सूर्यस्य रश्मिभ्यः ओषधीनां सृजनं भवति। एतानि ओषधयः रेवतीनां संपृंचनं कुर्वन्ति। लोकव्यवहारे अयं सामान्यस्थितिः अस्ति। वैदिकवाङ्मये जगत्याः एका संज्ञा सिनीवाली अमावास्या अस्ति (ऐतरेयब्राह्मणम् ३.४७ )। अमावास्या अर्थात् यः आमः, अपक्वः अस्ति, तस्याः पाकम्। अयं पाकं अमावास्यां तिथौ चन्द्रमसः साहाय्येन केन प्रकारेण भवति, विचारणीयः।
जगत् १. इयं (पृथिवी) वै जगत्यस्याꣳ हीदꣳ सर्वं जगत् । माश ६,२,१,२९, ६.२.२,३२ । २. यो जानुदघ्नस्स गायत्रचिद्यो नाभिदघ्नस्स त्रिष्टुप् चिद्यः पुरुषमात्रस्स जगच्चित्। काठ २१,४ । ३. ध्रुवक्षितिः -- यस्ते राजन् वरुणद्रुहः पाशो जगच्छन्दा दिवमन्वाविवेश विशि प्रतिष्ठितस्तं त एतदवयजे तस्मै स्वाहा (गायत्रच्छन्दा पृथिवीं, त्रिष्टुप्छन्दा अन्तरिक्षं, अनुष्टुप्छन्दा दिशःअनु) । काठ १७,१९ । ४. जागतं वा एतन्नवममहर्भवत्यात्मा वा आग्रयणः सर्वं वा इदमात्मा जगत्तस्मादाग्रयणाग्रान् गृह्णाति । माश ४,५,९,८ । जगती(छन्दस्-)
युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः ।
जगता सिन्धुं दिव्यस्तभायद्रथंतरे सूर्यं पर्यपश्यत् ।
इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु ।
सम् आपऽओषधीभिः सम् ओषधयो रसेन । सं रेवतीर्जगतीभिः पृच्यन्तामिति रेवत्य आपो जगत्य ओषधयस्ता उ ह्येतदुभय्यः सम्पृच्यन्ते - माश १.२.२.२ स यदि (ओंकारस्य) एकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याभिसंपद्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥ - प्रश्नोपनिषत् ५.३ तेषां प्राणम् एव गायत्र्यावृञ्जत चक्षुस् त्रिष्टुभा श्रोत्रं जगत्या वाचम् अनुष्टुभा। अस्माद् एवैनान् लोकाद् गायत्र्यान्तरायन्न् अन्तरिक्षात् त्रिष्टुभामुष्माज् जगत्या पशुभ्यो ऽनुष्टुभा। - जै १.९९ १. अथ जगती । श्रोत्रमेव तत् । जै १, २५४ (तु. १,१०२,२६९; २,५८)। २. तस्य शिरो गायत्र्यः । आत्मा त्रिष्टुभोऽनूकं जगत्यः पक्षौ पङ्क्तयो। माश ८,६,२,३।। ३. उच्चा ते जातम् अन्धसेत्य् अन्धस्वतीर् भवत्य् अन्धस्वद् वै जगत्यै रूपं - तेन जगत्यै रूपान् न यन्ति। वैखानसं भवति जागतं साम। तेनैव जगत्यै रूपान् न यन्ति।। जै २,२३७ । ४. तेषां (असुराणां) प्राणम् एव गायत्र्यावृञ्जत चक्षुस् त्रिष्टुभा श्रोत्रं जगत्या वाचम् अनुष्टुभा। अस्माद् एवैनान् लोकाद् गायत्र्यान्तरायन्न् अन्तरिक्षात् त्रिष्टुभामुष्माज् जगत्या पशुभ्यो ऽनुष्टुभा।। जै १,९९ । ५. ग्रैष्मी त्रिष्टुभस्स्वारँ ...अयं पश्चाद् विश्वव्यचास्तस्य चक्षुर्वैश्वव्यचसं, वर्षाणि चाक्षुषाणि, जगती वार्षी, जगत्या ऋक्समम् ऋक्समाच्छुक्रः शुक्रात्सप्तदशस्सप्तदशाद्वैरूपं जमदग्निर्ऋषिः... शारद्यनुष्टुभ । काठ १६,१९ । ६. अष्टाचत्वारिꣳशदक्षरा जगती जागताः पशवः । - तैसं २,५,१०,४; काठ ३४,९; जै २, २८५; तै ३,८,८,४; जैउ ४, २, ८ (तु. जै १, ३६, ३,२४२; माश ६,२,२,३३) । ७. असौ (द्यौः) जगती । जै १, ३३९; जैउ १,७,३,३ । ८. तस्योष्णिग्लोमानि त्वग्गायत्री त्रिष्टुम्मांसमनुष्टुप्स्नावान्यस्थि जगती पङ्क्तिर्मज्जा प्राणो बृहती । ऐआ २, १,६। ९. आदित्या जगतीं समभरन्तां ते प्राविशन्तान्साच्छादयत् । जैउ १,४,४,६ । १०. यद् द्याव इन्द्र ते शतं शतं भूमीर् उत स्युः। न त्वा वज्रिन् सहस्रं सूर्या अनु इति(साम २७८) यद् वै शतवत् सहस्रवत् तज्जगत्यै रूपम् । जै ३, ४८ । २१. द्वादश आप्रियः।...जगती सर्वाणि छन्दाꣳसि । माश ६, २,१,३० । ११. अथ सौत्रामण्यां सोमसम्पत्तिः-- अनुष्टुभ आप्रियो भवन्ति। वाग्वा अनुष्टुप्।.... जागता अनुप्रैषा भवन्ति। इयं वै जगती। अनया वै सोमः सूयते। माश १२,८,२,२० । १२. विश्वे देवा द्वादशाक्षरया जगतीम् उदजयंश्, चतुर्धा ह्येतस्या द्वादश द्वादशाक्षराणि। मै १, ११, १० । १३. जगती गततमं छन्दः। जज्जगतिर्भवति क्षिप्रगतिर्ज्रज्मलाकुर्वन्नसृजतेति हि ब्राह्मणम् । दै ३,१७ (या ७,१३ द्र.)। यत् त्रिरस्तोभत् तत् त्रिष्टुभस्त्रिष्टुप्त्वम् । ..जगती गततमं छन्दः । जलचरगतिर्वा । गल्गल्यमानोऽसृजत् । इति च ब्राह्मणम् ।- निरुक्तशास्त्रम् ७.१३ १४. जगती छन्दसां पशव्यतमा । काठ २३, १०। १५. स उदराद् एव मध्यतस् सप्तदशं स्तोमम् असृजत जगतीं छन्दो वामदेव्यं साम विश्वान् देवान् देवतां वैश्यं मनुष्यं गां पशुम्। जै १,६९ । १६. जगतीं तृतीयसवनं संपद्यते । जै २,१०२ । १७. यद्वेव दिश्या उपदधाति । छन्दांसि वै दिशो गायत्री वै प्राची दिक्त्रिष्टुब्दक्षिणा जगती प्रतीच्यनुष्टुबुदीची पङ्क्तिरूर्ध्वा पशवो वै छन्दांस्यन्तरिक्षं मध्यमा चितिः -- माश ८,३,१,१२ । १८. जगतीभिः पश्चात् ... पशूनेवावरुन्द्धे । मै ३,३,२ । १९. गायत्रींल्लोमभिः प्रविशामि त्रिष्टुभं त्वचा प्रविशामि जगतीं माँसेन प्रविशाम्यनुष्टुभमस्थ्ना प्रविशामि पङ्क्तिं मज्ज्ञा प्रविशामि ॥। काठ ३८,१४ २०. जगती वै छन्दसां परमं पोषं पुष्टा । तां २१, १०,९। २२. गायत्री वा अनुमतिस् त्रिष्टुग् राका जगती सिनीवाल्य् अनुष्टुप् कुहूर् धाता वषट्कारः पूर्वपक्षो राकापरपक्षः कुहूर् अमावास्या सिनीवली पौर्णमास्य् अनुमतिश् चन्द्रमा धाता ।। तैसं ३,४,९,६; मै ४, ३,५ । २३. जगती हीयम् (पृथिवी) । माश २, २,१,२०। २४. जगत्यां प्रस्तुतायां श्रोत्रेण दिशः संदध्यात् । जै १, २७० । २५. गायत्री वै यज्ञस्य प्रमा त्रिष्टुबभिमा जगत्युन्मानुष्टुप् प्रतिमा। काठ ३२,४ ॥ २६. गायत्र्येव भर्गस् त्रिष्टुब् एव महो जगत्य् एव यशो ऽनुष्टुब् एव सर्वम्।।… गो १, ५, १५। २७. जगत्यैव तच्छन्दसा प्रजापतिश्चेन्द्रश्चादित्येषु देवेषु तृतीयसवने ऽध्यपचितिमगच्छताम् । जै २,१०१। २८. जगत्या परि दध्यात् । जागता वै पशवः पशुकामः खलु वै वैश्यो यजते जगत्यैवास्मै पशून् परि गृह्णाति। तैसं २, ५, १०, २ । २९. तदाहुः प्लवमिव वा एतच्छन्दो यज्जगती, न प्रायणाय । जै २, ३७९ । ३०. अथानुयाजकर्म -- स वै खलु बर्हिः प्रथमं यजति । अयं वै लोको बर्हिरोषधयो बर्हिरस्मिन्नेवैतल्लोक ओषधीर्दधाति ता इमा अस्मिंलोक ओषधयः प्रतिष्ठितास्तदिदं सर्वं जगदस्यां तेनेयं जगती तज्जगतीं प्रथमामकुर्वन् - माश १, ८, २, ११ । ३१. ता वा एता जगत्यो यद् द्वादशाक्षराणि पदानि । तां १६, ११, १० । ३२. दित्यवाहो (धेनवो [मै ३, १३, १८]) जगत्यै । मै ३,१३,१७, १८ । ३३. द्यौर्जगती । मै ३. १, २, काठ १९, १; क २९, ८ । ३४. द्वादशाक्षरा (द्वादशाक्षरपदा [ष. ]) जगती । जै १,१४१; तां ६,३, १३; ष २,१ (तु. ऐ ३,१२; गो २, ३, १०; जै १, १३२; २,८४, १७३; २७३; तै ३,८,१२,२; माश ४,१,१,१२; ६, २,१, २९)। ३५. वयस्या इष्टकाः-- धेनुर्वयो जगती छन्दः । तैसं ४, ३, ५, १; मै २, ८,२; काठ १७, २ । ३६. पशवो जगती ( जगतीः [मै., काठ.]) मै ४, १, ९; काठ ३१, ७; कौ १६, २,६; १७,२; ९; जै १, १३२; ३३९; २,८४, ८९,१७३; २८५; ३,२४२; तै ३, २, ८, २; माश ३, ४, १, १३, ८,३,३,३; ष २, १, (तु. तैसं ३, २, ९, ४; मै ४, ५, ३; गो २, ५, ५; जै १,२२९; २८९; २,२७३, ३४६; ३,१३०) । ३७. पुंसो वा एतद् रूपं यद् बृहत् स्त्रियै जगती। जै ३,२६१ । ३८. दविद्युतत्या रुचा इति ब्रह्मवर्चसकामः प्रतिपदं कुर्वीत। दविद्युतती वै गायत्री। गायत्री ब्रह्मवर्चसम् ओजो वीर्ये त्रिष्टुप् प्रजननं जगती।। जै १, ९३; ष २, ३ । ३९. प्रतीचीमारोह । जगती त्वावतु वैरूपꣳ साम सप्तदश स्तोमो वर्षा ऋतुर्विड् द्रविणम् । माश ५, ४, १,५। ४०. प्राचीमातिष्ठ, जगती त्वा छन्दसामवतु (छन्दसावतु काठ.) सप्तदशः स्तोमो वैरूपꣳ साम विश्वेदेवा देवता (मरुतो देवता [काठ.1), विड् द्रविणम् । मै २, ६, १०, काठ १४, ७ ॥ ४१. बलम् वै वीर्यम् जगती । बलम् वीर्यम् पुरस्तात् त्रिष्टुप् । बलम् वीर्यम् उपरिष्टाज् जगती । । कौ ११, २ । ४२. बलं वै वीर्य्यं (ब्रह्म ह वै [गो.J) जगती । कौ ११, २, गो २,५,५। ४३. अथ होवाचाषाढस् सावयसो जगतीम् एवाहं भूमानं प्रजातिम् उपास इति। भूमा वै प्रजातिर् जगती छन्दसाम्। जै १, २७२ । ४४. यदष्टौ कृत्व उपभृति गृह्णाति, त्रिष्टुब्जगतीभ्यां तद् गृह्णाति । माश १, ३, २, १६ । ४५. तद् उ होवाच शाट्यायनिर् जागतो विषुवान्। जागतम् एतत् साम। जागतो ऽसाव् आदित्यः। यदा ह्य् एष उदेत्य् अथ जगद् एतस्यैव प्रयाणम् अनु प्रैति। तस्माज् जगतीष्व् एव दिवाकीर्त्यं पृष्ठं कार्यम् इति। जै २, ३६ । ४६. यद्धोतारं वृणीते जगतीं तद् वृणीते । मै ३, ९, ८ । ४७. यद् विवर्तो विशां स्तोमो ऽष्टाचत्वारिंश इति जगती हि सा विड् वै जगती । विश उ वा इदं सर्वं विवर्तम् । जै ३, ३०९ । ४८. यद् विश्वान् देवान् ( देवाः ) अब्रुवन् युष्माकमायतनेनेति तस्माज् जगत्योऽनुशंस्यन्ते । जै १, २११ ।
४९.
यद् द्याव इन्द्र ते शतं शतं भूमीर् उत स्युः। न त्वा वज्रिन् सहस्रं सूर्या अनु रायः समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वतः । आ पवस्व सहस्रिणः ।।( ८७१ )इति यद् वै शतवत् तज् जगत्यै रूपम्। जागतम् एतद् अहः। जै ३.५१ । ५०. यस्य द्वादश ता जगतीम् (अभिसंपद्यन्ते) । कौ ९,२ । ५१. या सिनीवाली सा जगती। ऐ ३, ४७ । ५२. य एवायं प्रजननः प्राणः एष त्रिष्टुबिति…योऽयमवाङ् प्राण एष जगती। माश १०, ३, १, ७ । ५३. सा गायत्री गाथयापुनीत नाराशंस्या त्रिष्टुब् रैभ्या जगती। जैउ १, १८, २, १ । ५४. विड़ (+वै (जै १,२६३.) जगती । जै १,२६३, २८६ । ५५, विराजमातिष्ठ जगती त्वा छन्दसामवतु, सप्तदश स्तोमो, वैरूपꣳ साम, मरुतो देवता, विड़ द्रविणम् ।(समित् गायत्री, उग्रा त्रिष्टुप्, उदीची अनुष्टुप्, ऊर्ध्वा पङ्क्तिः)- तैसं १,८, १३, १ । ५६. विश्वे देवा द्वादशाक्षरया (द्वादशाक्षरेण तैसं. 1) जगतीमुदजयन् । तैसं १, ७, ११, २; मै १,११, १०, काठ १४, ४ ।। छन्दस्या इष्टका - तस्य शिरो गायत्र्यः । आत्मा त्रिष्टुभोऽनूकं जगत्यः पक्षौ पङ्क्तयो माश ८.६.२.३ ५७. श्रोणी जगत्यः । स यावति पुरस्तात्स्वयमातृण्णायै त्रिष्टुभ उपदधाति तावति पश्चाज्जगती- माश ८, ६, २, ८ । ५८. श्रोत्रं ( असुराणाम् )जगत्या ( देवा अवृञ्जत)। जै १, ९९; २५३ । ५९. सम् आपो अद्भिर् अग्मत सम् ओषधयो रसेन सꣳ रेवतीर् जगतीभिर् मधुमतीर् मधुमतीभिः सृज्यध्वम् । तैसं १, १, ८, १। ६०. सा ( जगती ) पशुभिश्चागच्छद्दीक्षया च, तस्मात्पशवा इति जगतीमाहुः । मै ३, ७,३ । ६१. सिनीवाली जगती । काठ १२, ८ । ६२. होतारं वृणीते जगतीं तच्छन्दसां वृणीते । काठ २६, ९॥ आदित्यानां जगती (पत्नी)। - तैआ ३.९.१ जगतीं स छन्दसां जयत्यादित्यान् देवान् देवानाम् – जै १.३६ जगती छन्द आदित्यो देवता श्रोणी – माश १०.३.२.६ जगत्यादित्याः (अन्वारभन्त) – काठ ७.६ जगत्यादित्यानां पत्नी अनुष्टुब् मित्रस्य पत्नी विराड् वरुणस्य पत्नी पङ्क्तिर् विष्णोः पत्नी– गो २.२.९ र्गायत्री वसूनां , त्रिष्टुब् रुद्राणां , जगत्यादित्याना, मनुष्टुब् मित्रस्य, विराड् वरुणस्य, पङ्क्तिर् विष्णो , र्दीक्षा सोमस्य – मै १.९.२, काठ ९.१० द्वादशादित्या द्वादशाक्षरा जगती। - तैसं ३.४.९.७, (तु. जै १.१४१) प्रजननं जगती। सोऽसावादित्यः – जै २.३६ आग्नीध्राद्यभिमर्शनम् -- अग्निर् देवता गायत्री छन्द उपाꣳशोः पात्रम् असि सोमो देवता त्रिष्टुप् छन्दो ऽन्तर्यामस्य पात्रम् असीन्द्रो देवता जगती छन्द इन्द्रवायुवोः पात्रम् असि बृहस्पतिर् देवतानुष्टुप् छन्दो मित्रावरुणयोः पात्रम् अस्य् अश्विनौ देवता पङ्क्तिश् छन्दो ऽश्विनोः पात्रम् असि सूर्यो देवता बृहती छन्दः शुक्रस्य पात्रम् असि चन्द्रमा देवता सतोबृहती छन्दो मन्थिनः पात्रम् असि विश्वे देवा देवतोष्णिहा छन्द आग्रयणस्य पात्रम् असीन्द्रो देवता ककुच् छन्द उक्थानाम् पात्रम् असि पृथिवी देवता विराट् छन्दो ध्रुवस्य पात्रम् असि ॥ - तैसं ३.१.६.२ त्रिष्टुभो वा एतद् वीर्यं यत् ककुद् उष्णिहा जगत्यै यद् उष्णिहककुभाव् अन्वाह तेनैव सर्वाणि छन्दाꣳस्य् अव रुन्द्धे - तैसं २.४.११.१ सं रेवतीर्जगतीभिः पृच्यन्तामिति (वासं १.२२) रेवत्य आपो जगत्य ओषधयस्ता उ ह्येतदुभय्यः सम्पृच्यन्ते – माश १.२.२.२ १०. कतम एते देवा इति छन्दाꣳसीति ब्रूयाद्गायत्रीं त्रिष्टुभं जगतीमिति । तैसं २, ६,९,३-४ ॥ १३. गायत्र्यै ... त्रिष्टुभे जगत्या अनुष्टुभे... एतावन्ति वै छन्दाꣳसि । काठ ३४, ४ । १४. चत्वारि छन्दांसि (+यज्ञवाहो गायत्री, त्रिष्टुब्जगत्यनुष्टुप् । जै.) । तैसं ५,१,१,४; २,१,२; ३,४; जै १,३००, २, ४३१ (तु मै ३, १, २, २,३; काठ १९, ४, २१, ८; क ३१, ३)। ३२. छन्दांसि वाव देवानां गृहाः ।...गायत्र्यैव वसवो गृहिणः । त्रिष्टुभैव रुद्रा गृहिणः ।... जगत्यैवादित्या गृहिणः । अनुष्टुभैव विश्वेदेवाः । जै १,२८० । ७२. त्रीणि ह वै छन्दांसि यज्ञं वहन्ति गायत्री त्रिष्टुब् जगती । जै १, १२० (तु. जै २,३६०)। ८०. पञ्च च्छन्दांसि रात्रौ शंसत्यनुष्टुभं गायत्रीमुष्णिहं त्रिष्टुभं जगतीमित्येतानि वै रात्रिच्छन्दांसि । कौ ३०, ११ । अपानो जगती – मै ३.४.४, काठ २१.१२ प्रतीची दिग्, वर्षा ऋतुर्विश्वे देवा देवता विड् द्रविणं जगती छन्दो वैरूपꣳ साम, सप्तदशः स्तोमः, स उ एकविꣳशवर्तनिरहभूना ऋषिस्त्रिवत्सो वयो द्वापरोऽयानाम् – मै २.७.२० (तु. तैसं ४.३.३.२) गायत्री छन्द, स्तदजा, बृहस्पतिर् देवता, त्रिष्टुप् छन्द, स्तद्धिरण्यम्, इन्द्रो देवता, जगती छन्द, स्तद् गौः, प्रजापतिर् देवता , अनुष्टुप् छन्द, स्तदायु , र्मित्रो देवता , उष्णिक् छन्द, स्तच्चक्षुः, पूषा देवता, विराट् छन्द, स्तदश्वो , वरुणो देवता, बृहती छन्द, स्तत् कृषिः,पर्जन्यो देवता, पङ्क्तिश्छन्द, स्तत् पुरुषः, परमेष्ठी देवता - मै २.१३.१४, क ३९.४ या द्यौः सानुमतिः सो एव गायत्र्युषसे चरुं योषाः सा राका सो एव त्रिष्टुब्गवे चरुं या गौः सा सिनीवाली सो एव जगती पृथिव्यै चरुं या पृथिवी सा कुहूः सो एवानुष्टुब्। ऐ ३.४८ दविद्युतत्यारुचेति(दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । सोमाः शुक्रा गवाशिरः ॥ ६५४ ॥) तृतीयस्याह्नः प्रतिपद्भवति दविद्युतती वै गायत्री परिष्टोभन्ती त्रिष्टुब्गवाशीर्जगती त्रीणि रूपाणि समारभते – तां १२.१.२ त्रीणि वै पात्राणि प्रत्यक्षबन्धूनि, परोक्षबन्ध्व् एवान्यत्सर्वं , गायत्यैवान्द्रवायव, स्त्रिष्टुप् शुक्रो , जगत्याग्रायणः – मै ४.८.८, काठ ३०.२, ४६.५ जगति आग्रायणः – मै ४.८.८ अयं पश्चा विश्वव्यचाः...चक्षुः.... वर्षाणि.... जगती... ऋक्समम्... शुक्रः... सप्तदशः... वैरूपं जमदग्निर्ऋषिः मै २.७.१९
जगती-छन्दस् १. जगतीछन्दा वै वैश्यः । तै १, १, ९, ७ । मित्रोऽसि सुशेव इत्याह । जगतीमेवैतेनाभिव्याहरति । सत्यमेता देवताः । सत्यमेतानि छन्दाꣳसि । सत्यमेवावरुन्धे । वरुणोऽसि सत्यधर्मेत्याह । अनुष्टुभमेवैतेनाभिव्याहरति । सत्यानृते वा अनुष्टुप् । सत्यानृते वरुणः । - तैब्रा. १.७.१०.४ २. स उदराद् एव मध्यतस् सप्तदशं स्तोमम् असृजत जगतीं छन्दो वामदेव्यं साम विश्वान् देवान् देवतां वैश्यं मनुष्यं गां पशुम्। तस्माद् वैश्यो जगतीछन्दाः । जै १, ६९ । ३. श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय सघाऽसि जगतीछन्दाः (सघा= गृध्रो वा भासो वा )। तैसं ३, २, १,१ । जागत १. अरातीयतो हन्ता, जागतं छन्द आरोह दिवमनुविक्रमस्व । तैसं ४, २, १, १ । २. अश्मा जागतम् (छन्दः)। शांआ ११, ७ । ३. अस्मत्सखा देव सोम जागतेन च्छन्दसा विश्वेषां देवानां पाथ उपेहि । काठ ३०, ६ । ४. इदमहं जागतेन च्छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्ना विश्वैर्देवैर्देवतया प्रजां ते पुष्टिमाददे ऽसौ । काठ ३६, १५। ५. गौरीर्वो वृञ्जे जागतेन छन्दसा । मै ४, २, ११ । ६. घर्म या ते पृथिव्याꣳ शुक्, या जागते छन्दसि या वैश्ये या सदसि तां त एतेनावयजे । तैआ ४, ११, २ । ७. जागतं श्रोत्रम् (सदः (मै., काठ ])। मै ३, ४, ४, काठ २१, १२; जै २, २४२; तां २०,१६,५। ८. जागतं हि तृतीयसवनम् । कौ १६, १; गो २, ४, १८; तां ६, ३,११; ष १, ४; (तु. तैसं ३,२,९, ४; ऐ ६,२; १२; गो २, २,२२; जै १,१४१, ३,५७)। ९. जागतं तृतीयमहः । तैसं ७, २, ८, १ । १०. जागताः पशवः (+वै [तैसं., ऐ., ऐआ.J)। तैसं २, ५, १०,२; मै ३, ४, २, काठ ३४,९; ऐ १,५; २१; २८, ३,१८, ४,३; ५,६; कौ ३०, २; गो २,४,१६; ष ३, ७; ऐआ १,१,३ । ११. जागते ऽमुष्मिँल्लोके जागतो ऽसावादित्यो ऽध्यूढः । कौ १४, ३ । १२. जागतो वा एष य एष (सूर्यः) तपति । कौ २५, ४, ७ । १३. जागतो (+वै [जै २, ३८१]) विषुवान् । जै २, ३६,३८१ । १४. जागतो (+वै ऐ.; हि ।मै 1) वैश्यः । ऐ १, २८; मै ३, १, ५; जै २,१०२ । १५. जागतो ऽश्वः प्राजापत्यः । तै ३, ८,८, ४ । १६. जागतो ऽसौ (द्यु- ) लोकः । कौ ८, ९ । १७. जागतो हि होता । जै १, ३१८ ।
१८.
मूर्धानं दिव इति स्वर्गं लोकमारभन्ते अरतिं पृथिव्या इत्यस्मिंल्लोके
प्रतितिष्ठन्ति वैश्वानरमृत आजातमग्निमिति विषुवत एव तद्रूपं क्रियते १९. दिवं विष्णुर्व्यक्रꣳस्त जागतेन च्छन्दसा । काठ ५, ५; माश १, ९,३, १० : २०. यद् गायत्रं स्वारम् आग्नेयं तद् देवतया यत् त्रैष्टुभं निधनवद् ऐन्द्रं तद् देवतया यज् जागतम् ऐळं वैश्वदेवं तद् देवतया यद् आनुष्टुभम् ऋक्समं प्राजापत्यं तद् देवतया॥ - जै १, २९९ । २१. अथैष गौतमस्य चतुष्टोमः। ... द्वादशो माध्यंदिनः। द्वादशाक्षरा वै जगती। पशवो जगती। यत्क्षुद्रं पशूनां तज्जागतम् । जै २, १७३ । २२. वैखानसं भवति जागतं साम । जै २, २३७ । २३. वैश्वदेवं जागतं तृतीयसवनम् । काठ २२, ३ । २४. श्रोत्रमेव नवममहर्जागतम् । जै ३, ३१९ । २५. साम्नामादित्यो देवतं तदेव ज्योतिर्जागतं च्छन्दो द्यौः स्थानम् । गो १, १, २९ जागत आग्रायणः – काठ ३०.२, ४६.५ जगति आग्रायणः – मै ४.८.८ आदित्यास्त्वापश्चादभिषिञ्चन्तु जागतेन छन्दसा – तै २.७.१५.५ आदित्यास्त्वा पुनन्तु जागतेन छन्दसा क ३९.२, जै १.७३ आदित्यास्त्वा परिगृह्णन्तु जागतेन छन्दसा मै १.१.१० आदित्यास्त्वा प्रोहन्तु जागतेन छन्दसा – जै १.७८ आदित्यास्त्वा संमृजन्तु जागतेन छन्दसा – जै १.८१ जागतोऽसावादित्यः जै २.३६ जागता वै ग्रावाणः – कौ २९.१ जागती- जागती द्यौः। तैसं ५, २, १, १।
|
|